महेश्वर उवाच
शृणु देवि महाविद्यां सर्वसिद्धिप्रदायिकाम् ।
यस्य विज्ञानमात्रेण शत्रुवर्गा लयं गताः ॥ १ ॥
विपरीतमहाकाली सर्वभूतभयङ्करी ।
यस्याः प्रसङ्गमात्रेण कम्पते च जगत्त्रयम् ॥ २ ॥
न च शान्तिप्रदः कोऽपि परमेशो न चैव हि ।
देवताः प्रलयं यान्ति किं पुनर्मानवादयः ॥ ३ ॥
पठनाद्धारणाद्देवि सृष्टिसंहारको भवेत् ।
अभिचारादिकाः सर्वा या यासाध्यतमाः क्रिया ॥ ४ ॥
स्मरणेन महाकाल्याः नाशं जग्मुः सुरेश्वरि ।
सिद्धिविद्या महाकाली यत्रेवेह च मोदते ॥ ५ ॥
सप्तलक्षमहाविद्या गोपिता परमेश्वरि ।
महाकाली महादेवी शङ्करस्येष्टदेवता ॥ ६ ॥
यस्याः प्रसादमात्रेण परब्रह्म महेश्वरः ।
कृत्रिमादिविषघ्नी सा प्रलयादि निवर्तिका ॥ ७ ॥
त्वदङ्ग्रिदर्शनादेव देवि कम्पमानो महेश्वर ।
यस्य निग्रहमात्रेण पृथिवी प्रलयं गता ॥ ८ ॥
दशविद्याः सदा ज्ञाता दशद्वारसमाश्रिता ।
प्राचीद्वारे भुवनेशी दक्षिणे कालिका तथा ॥ ९ ॥
नाक्षत्री पश्चिमे द्वारे उत्तरे भैरवी तथा ।
ऐशान्यां सततं देवि प्रचण्डचण्डिका तथा ॥ १० ॥
आग्नेय्यां बागलादेवी रक्षः कोणे मतङ्गिनी ।
धूमावती च वायव्वे अधे ऊर्ध्व च सुन्दरी ॥ ११ ॥
सम्मुखे षोडशी देवी जाग्रत्स्वप्नस्वरूपिणी ।
वामभागे च देवेशी महात्रिपुरसुन्दरी ॥ १२ ॥
अंशरूपेण देवेशि सर्वा देव्यः प्रतिष्ठिताः ।
महाप्रत्यङ्गिरा चैव विपरीता तथोदिता ॥ १३ ॥
महाविष्णुर्यदा ज्ञाता भुवनानां महेश्वरि ।
कर्ता पाता च संहर्ता सत्यं सत्यं वदामि ते ॥ १४ ॥
भुक्तिमुक्तिप्रदा देवि महाकाली सुनिश्चिता ।
वेदशास्त्रप्रगुप्ता सा न दृश्या देवतैरपि ॥ १५ ॥
अनन्तकोटिसूर्याभा सर्वजन्तुभयङ्करी ।
[शत्रु] ध्यानज्ञानविहीना सा वेदान्तामृतवर्षिणी ॥ १६ ॥
सर्वमन्त्रमयी काली निगमागमकारिणी ।
निगमागमकारी सा महाप्रलयकारिणी ॥ १७ ॥
यस्याङ्गघर्मलवा च सा गङ्गा परमोदिता ।
महाकाली नगेन्द्रस्था विपरीता महोदया ॥ १८ ॥
विपरीता प्रत्यङ्गिरा तत्र काली प्रतिष्ठिता ।
सदा स्मरणमात्रेण शतॄणां निगमागमाः ॥ १९ ॥
नाशं जग्मुः नाशमायुः सत्यं सत्यं वदामि ते ।
परब्रह्म महादेवी पूजनैरीश्वरो भवेत् ॥ २० ॥
शिवकोटिसमो योगी विष्णुकोटिसमः स्थिरः ।
सर्वैराराधिता सा वै भुक्तिमुक्तिप्रदायिनी ॥ २१ ॥
गुरुमन्त्रशतं जप्त्वा श्वेतसर्षपमानेयत् ।
दशदीशो विकिरेत् तान् सर्वशतृक्षयाप्तये ॥ २२ ॥
गुरु मन्त्रः –
ओं हूं स्फारय स्फारय मारय मारय शत्रुवर्गान् नाशय नाशय स्वाहा ॥ २३ ॥
आत्मरक्षां शत्रुनाशं सा करोति च तत् क्षणात् ।
ऋषिन्यासादिकं कृत्वा सर्षपैर्मारणं चरेत् ॥ २४ ॥
विनियोगः-
अस्य श्रीमहाविपरीतप्रत्यङ्गिरा स्तोत्रमन्त्रस्य श्रीमहाकालभैरव ऋषिः त्रिष्टुप् छन्दः
श्रीमहाविपरीत प्रत्यङ्गिरा देवता हूं बीजं ह्रीं शक्तिः क्लीं कीलकं मम श्रीमहाविपरीत
प्रत्यङ्गिराप्रसादात् सर्वत्र सर्वदा सर्वविधरक्षापूर्वक सर्वशत्रूणां नाशार्थे यथोक्तफलप्राप्त्यर्थे वा
पाठे विनियोगः ॥
ऋष्यादिन्यासः –
शिरसि श्रीमहाकालभैरव ऋषये नमः ।
मुखे त्रिष्टुप् छन्दसे नमः ।
हृदि श्रीमहाविपरीतप्रत्यङ्गिरा देवतायै नमः ।
गुह्ये हूं बीजाय नमः ।
पादयोः ह्रीं शक्तये नमः ।
नाभौ क्लीं कीलकाय नमः ।
सर्वाङ्गे मम श्रीमहाविपरीतप्रत्यङ्गिराप्रसादात् सर्वत्र सर्वदा सर्वविध रक्षापूर्वक सर्वशत्रूणां
नाशार्थे यथोक्तफलप्राप्यर्थे वा पाठे विनियोगाय नमः ॥ ॥
करन्यासः
हूं ह्रीं क्लीं ओं अङ्गुष्ठाभ्यां नमः ।
ह्रीं ह्रीं क्लीं ओं तर्जनीभ्यां नमः ।
ह्रीं ह्रीं क्लीं ओं मध्यमाभ्यां नमः ।
ह्रीं ह्रीं क्लीं ओं अनामिकाभ्यां नमः ।
ह्रीं ह्रीं क्लीं ओं कनिष्ठिकाभ्यां नमः ।
ह्रीं ह्रीं क्लीं ओं करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
हूं ह्रीं क्लीं ओं हृदयाय नमः ।
हूं ह्रीं क्लीं ओं शिरसे स्वाहा ।
हूं ह्रीं क्कीं ओं शिखायै वषट् ।
हूं ह्रीं क्लीं ओं कवचाय हुम् ।
हूं ह्रीं क्लीं ओं नेत्रत्रयाय वौषट् ।
हूं ह्रीं क्लीं ओं अस्त्राय फट् ।
मूलमन्त्रः
ओं नमो विपरीतप्रत्यङ्गिरायै सहस्रानेककार्यलोचनायै कोटिविद्युज्जिह्वायै महाव्यापिन्यै
संहाररूपायै जन्मशान्तिकारिण्यै, मम सपरिवारकस्य भाविभूतभवच्छत्रुदारापत्यान् संहारय
संहारय महाप्रभावं दर्शय दर्शय हिलि हिलि किलि किलि मिलि मिलि चिलि चिलि भूरि भूरि
विद्युज्जिह्वे ज्वल ज्वल प्रज्वल प्रज्वल ध्वंसय ध्वंसय प्रध्वंसय प्रध्वंसय ग्रासय ग्रासय पिब पिब
नाशय नाशय त्रासय त्रासय वित्रासय वित्रासय मारय मारय विमारय विमारय भ्रामय भ्रामय
विभ्रामय विभ्रामय द्रावय द्रावय विद्रावय विद्रावय हूं हू फट् स्वाहा ॥ १ ॥
हूं लं ह्रीं क्लीं ओं विपरीतप्रत्यङ्गिरे मम सपरिवारकस्य यावच्छत्रून् देवता पितृ पिशाच नाग
गरुड किन्नर विद्याधर गन्धर्व यक्ष राक्षस लोकपालान् ग्रह भूत नर लोकान् समन्त्रान्
सौषधान् सायुधान् ससहायान् पाणौ छिन्धि छिन्धि भिन्धि भिन्धि निकृन्तय निकृन्तय छेदय छेदय
उच्चाटय उच्चाटय मारय मारय तेषां साहङ्कारादिधर्मान् कीलय कीलय घातय घातय
नाशय नाशय विपरीतप्रत्यङ्गिरे स्फ्रें स्फ्रेत्कारिणी ओं ओं जं ओं ओं जंओं ओं जंओं ओं जं ओं ओं जं,
ओं ठः ओं ठः ओं ठः ओं ठः ओं ठः, मम सपरिवारकस्य शत्रूणां सर्वाः विद्याः
स्तम्भय स्तम्भय नाशय नाशय हस्तौ स्तम्भय स्तम्भय
नाशय नाशय मुखं स्तम्भय स्तम्भय नाशय नाशय नेत्राणि स्तम्भय स्तम्भय नाशय नाशय
दन्तान् स्तम्भय स्तम्भय नाशय नाशय जिह्वां स्तम्भय स्तम्भय नाशय नाशय पादौ स्तम्भय
स्तम्भय नाशय नाशय गुह्यं स्तम्भय स्तम्भय नाशय नाशय सकुटुम्बानां स्तम्भय स्तम्भय
नाशय नाशय स्थानं स्तम्भय स्तम्भय नाशय नाशय स प्राणान् कीलय कीलय नाशय नाशय हूं हूं हूं हूं हूं हूं हूं ह्रीं
ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं हीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं ऐं ऐं ऐं ऐं ऐं ऐं ऐं ओं ओं ओं ओं ओं ओं ओं फट् फट्
स्वाहा ॥ ३ ॥
मम सपरिवारकस्य सर्वतो रक्षां कुरु कुरु फट् फट् स्वाहा ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ऐं हूं ह्रीं क्लीं
सों विपरीतप्रत्यङ्गिरे मम सपरिवारकस्य भूतभविष्यच्छत्रूणामुच्चाटनं कुरु कुरु हूं हूं फट् फट्
स्वाहा ॥ ४ ॥
ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं वं वं वं वं वं लं लं लं लंलं रं रं रं रं रं यं यं यं यं यं ओं ओं ओं ओं ओं
नमो भगवति विपरीतप्रत्यङ्गिरे दुष्टचाण्डालिनी त्रिशूल वज्राङ्कुश शक्तिशूल धनुः शर पाश
धारिणी, शत्रु रुधिर चर्म मेदो मांसाऽस्थि मज्जाशुक्र मेहन वसा वाक् प्राण मस्तक
हेत्वादिभक्षिणी परब्रह्मशिवे ज्वालामालिनी शत्रूच्चाटन मारण क्षोभण स्तम्भन मोहन द्रावण
जृम्भण भ्रामण रौद्रण सन्तापन यन्त्र मन्त्र तन्त्र अन्तर्याग पुरश्चरण भूतशुद्धि पूजाफल परम
निर्वाण हारण कारिणि, कपाल खट्वाङ्ग परशु धारिणि, मम सपरिवारकस्य भूतभविष्यच्छत्रून्
ससहायान् सवाहनान् हन हन रण रण दह दह दम दम धम धम पच पच मथ मथ लङ्घय लङ्घय
खादय खादय चर्वय चर्वय व्यथय व्यथय ज्वरय ज्वरय मूकान् कुरु कुरु ज्ञानं हर हर हूं हूं फट् फट् स्वाहा ॥ ५ ॥
ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं हूं हूं हूं हूं हूं हूं हूं क्लीं कीं क्लीं क्लीं क्लीं क्लीं क्लीं ओं ओं ओं ओं ओं
ओं ओं विपरीतप्रत्यङ्गिरे ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं हूं हूं हूं हूं हूं हूं हूं क्लीं क्लीं क्लीं क्लीं क्लीं
क्लीं क्लीं ओं ओं ओं ओं ओं ओं ओं फट् फट् स्वाहा ॥ ६ ॥
मम सपरिवारकस्य कृत मन्त्र यन्त्र तन्त्र हवन कृत्यौषध विषचूर्ण शस्त्राद्यभिचार
सर्वोपद्रवादिकं येन कृतं कारितं कुरुते करिष्यति वा तान् सर्वान् हन हन स्फारय स्फारय
सर्वतो रक्षां कुरु कुरु हूं हूं फट् फट् स्वाहा ॥ ७ ॥
हूं हूं हूं हूं हूं हूं हूं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं क्लीं कीं क्लीं क्लीं क्लीं क्लीं क्लीं
ओं ओं ओं ओं ओं ओं ओं फट् फट् स्वाहा ॥ ८ ॥
ओं हूं ह्रीं क्लीं ओं अं विपरीतप्रत्यङ्गिरे मम सपरिवारकस्य शत्रवः कुर्वन्ति करिष्यन्ति शत्रुश्च
कारयामास कारयन्ति कारयिष्यन्ति याऽन्यां कृत्यान् तैः सार्धं तांस्तां विपरीतां कुरु कुरु
नाशय नाशय मारय मारय श्मशानस्थानं कुरु कुरु कृत्यादिकां क्रियां भाविभूतभवच्छत्रूणां
यावत् कृत्यादिकां विपरीतां कुरु कुरु तान् डाकिनीमुखे हारय हारय भीषय भीषय त्रासय
त्रासय परमशमनरूपेण हन हन धर्मावच्छिन्न निर्वाणं हर हर तेषां इष्टदेवानां शासय शासय
क्षोभय क्षोभय, प्राणादि मनो बुद्ध्यहङ्कार क्षुत्तृष्णाऽऽकर्षण लयन आवागमन मरणादिकं
You have read half of this article
Log in to keep reading. Creating an account is completely free – with Google or mobile OTP, in a minute.
Log in & read more New here? Create a free accountLog in to read more
You have read 50% of this article for free. Log in once to read the rest – and every astrology, Vastu and horoscope article on Future For You.
- Completely free – no charges
- One click with Google, or mobile OTP
- Straight back to this article after login