Home Articles अन्य लेख
अन्य लेख

अञ्जनशैलनाथस्तोत्रम्

 
॥ अञ्जनशैलनाथस्तोत्रम् ॥

पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्रीं
भुवननयनपुण्यं पूरिताशेषकामम् ।
पुनरपि वृषशैले फुल्लनीलोत्पलाभं
पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ १॥

आजानसौहृदमपारकृपामृताब्धिं
अव्याजवत्सलमवेलसुशीलमाद्यम् ।
आनन्दराशिमनुरागमयावरोधं
आराधयामि हरिमञ्जनशैलनाथम् ॥ २॥

आताम्रपादमवदातसुवर्णचेलं
आपीनबाहुशिखरोज्ज्वलशङ्खचक्रम् ।
आविस्स्मिताननममन्ददयाकटाक्षं
आराधयामि हरिमञ्जनशैलनाथम् ॥ ३॥

अप्राकृतावयवसंहितसंनिवेशं
आरूढयौवनमहीनकुमारभावम् ।
अम्लानकान्तिमतिवाङ्मनसानुभावं
आराधयामि हरिमञ्जनशैलनाथम् ॥ ४॥

आशावकाशसमुदित्वरसर्वगन्धं
आस्वादयत्सुगमसर्वरसस्वभावम् ।
आश्लेषगम्यसुखसंस्पृशनातिरेकं
आराधयामि हरिमञ्जनशैलनाथम् ॥ ५॥

आदर्शयन्तमतिसंकुचिताक्षिशक्तिं
आश्रावयन्तमखिलान् बधिरान् प्रकृत्या ।
आभाषयन्तमभितो नतमूकवर्गं
आराधयामि हरिमञ्जनशैलनाथम् ॥ ६॥

आधावयन्तमतिमारुतमेव पङ्गून्
आजानुलम्बिभुजयन्तमहो कुबाहून् ।
अन्यांश्च कृतशिरसः प्रतिजीवयन्तं
आराधयामि हरिमञ्जनशैलनाथम् ॥ ७॥

आजन्मनिर्धनजनानलकेशयन्तं
अज्ञानपि त्रिदशदेशिकदेश्ययन्तम् ।
अह्नाय वन्ध्यमपि मर्त्यमवन्ध्ययन्तं
आराधयामि हरिमञ्जनशैलनाथम् ॥ ८॥

आबद्धकङ्कणमशेषशरण्यतायां
आपत्सहायमपराधसहं नतानाम् ।
आसन्नसामगसुखालससूरिवर्गं
आराधयामि हरिमञ्जनशैलनाथम् ॥ ९॥

अध्यासितासनसरोजसनूपुराङ् घ्रिं
आमुक्तवीरकटकायतवृत्तजङ्घम् ।
आश्चर्यजानुयुगमप्रतिमोरुकाण्डं
आराधयामि हरिमञ्जनशैलनाथम् ॥ १०॥

आवर्तिनिम्ननिखिलाण्डनिदाननाभिं
आयामिदोर्विवरकेलिगृहावरोधम् ।
आबद्धरत्नमयभूषभुजाचतुष्कं
आराधयामि हरिमञ्जनशैलनाथम् ॥ ११॥

अंसावलम्बिमणिकुण्डलकान्तगण्डं
आविस्स्मितांशुमधुराधरबन्धुजीवम् ।
आस्याब्जसौरभसमुत्सुकदीर्घनासं
आराधयामि हरिमञ्जनशैलनाथम् ॥ १२॥

अर्धेन्दुभास्वदलिकोल्लसदूर्ध्वपुण्ड्रं
आलोलनीलकुटिलालकचारुवक्त्रम् ।
आविर्मयूखमणिचूडमहाकिरीटं
आराधयामि हरिमञ्जनशैलनाथम् ॥ १३॥

वादिभीतिकरार्येण रचिता भावबन्ध तः
शोभते वेङ्कटाद्रीशविषया स्तुतिरद्भुता ॥ 
 ॥ इति अञ्जनशैलनाथस्तोत्रं संपूर्णम् ॥

आप इस लेख का आधा भाग पढ़ चुके हैं

आगे पढ़ने के लिए लॉगिन करें। खाता बनाना पूरी तरह निःशुल्क है – Google या मोबाइल OTP से, एक मिनट में।

लॉगिन करें और आगे पढ़ें नया यूज़र? निःशुल्क खाता बनाएँ

क्या आपके जीवन में कोई प्रश्न है?

अनुभवी ज्योतिषियों से कुंडली, विवाह, करियर और वास्तु पर व्यक्तिगत परामर्श लें।

अभी परामर्श लें