Other Articles

श्री हनुमान द्वादश नाम स्तोत्र

99views

 

श्री हनुमान द्वादश नाम स्तोत्र

 

हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल:।

रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥

उदधिक्रमणश्चैव सीताशोकविनाशन:।

लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥

द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः।

स्वापकाले प्रबोधे च यात्राकाले च य: पठेत् ॥

तस्य सर्वभयं नास्ति रणे च विजयी भवेत्।

राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥

 

ALSO READ  श्री महाकाल धाम के स्वप्नद्रष्टा स्व. रूपक त्रिपाठी का महान स्वप्न हुआ साकार  "AstroShrine" ऐप अब Play Store पर उपलब्ध