कन्दुकस्तुती
कन्दुकस्तुती श्रीमदानन्दतीर्थ-भगवत्पादाचार्य विनिर्मिता ॥ अंबरगंगा-चुंबित-पादः पदतल-विदलित-गुरुतर-शकटः । कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः ॥१॥ कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः । संतत-मस्मान् पातु मुरारिः सततग-समजव-खगपति-निरतः ॥२॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिता कन्दुकस्तुतिः संपूर्णा ॥...