ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यं
॥ ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यं ॥ श्रीशुक उवाच -- किं जपन् मुच्यते तात सततं विष्णुतत्परः । संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥ १॥ व्यास उवाच -- अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम् । यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥ २॥ हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् । एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः ॥ ३॥ एकान्ते निर्जनस्थाने विष्णवग्रे वा जलान्तिके । जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै ॥ ४॥ अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम् । छन्दश्च दैवी गायत्री परमात्मा च देवता ॥ ५॥ शुक्लवर्णं च ॐकारं नकारं रक्तमुच्यते । मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते ॥ ६॥ राकारं...