Home Articles अन्य लेख
अन्य लेख

एकादशमुखहनुमत्कवचम्

एकादशमुखहनुमत्कवचम्

श्रीगणेशाय नमः ।
लोपामुद्रा उवाच ।
कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् ।
यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥

दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ २॥

इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् ।
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ ३॥

अगस्त्य उवाच ।
नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।
ब्रह्मप्रोक्तं तु कवचं श‍ृणु सुन्दरि सादरम् ॥ ४॥

सनन्दनाय सुमहच्चतुराननभाषितम् ।
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ ५॥

सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥ ६॥

हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः ।
प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ ७॥

छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥ ८॥

सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् ।
ॐ स्फ्रें-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥ ९॥

क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः ।
क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ १०॥

ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः ।
वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ ११॥

ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः ।
वं-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥ १२॥

ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।
ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ॥ १३॥

ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।
रं-बीजात्मा सदा पातु चोरू वार्धिलंघनः ॥ १४॥

सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।
पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ १५॥

आपादमस्तकं पातु रामदूतो महाबलः ।
पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ १६॥

दक्षिणे नारसिंहस्तु नैरृत्यां गणनायकः ।
वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥ १७॥

वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।
क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ॥ १८॥

ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।
रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ १९॥

इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।
एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ २०॥

रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।
पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥ २१॥

स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥ २२॥

चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः ।
एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ २३॥

द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् ।
क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ २४॥

वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।
यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ २५॥

ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥ २६॥

इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
संहृष्टचित्तापि तदा तदीयपादौ ननामातिमुदा स्वभर्तुः ॥ २७॥

॥ इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥

आप इस लेख का आधा भाग पढ़ चुके हैं

आगे पढ़ने के लिए लॉगिन करें। खाता बनाना पूरी तरह निःशुल्क है – Google या मोबाइल OTP से, एक मिनट में।

लॉगिन करें और आगे पढ़ें नया यूज़र? निःशुल्क खाता बनाएँ

क्या आपके जीवन में कोई प्रश्न है?

अनुभवी ज्योतिषियों से कुंडली, विवाह, करियर और वास्तु पर व्यक्तिगत परामर्श लें।

अभी परामर्श लें