Other Articles

श्रीआंजनेय द्वादशनामस्तोत्रम्

56views
 
॥ श्रीआंजनेय द्वादशनामस्तोत्रम् ॥

हनुमानंजनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १॥

उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २॥

द्वादशैतानि नामानि कपींद्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥


ALSO READ  ज्योतिष में 7 चक्रों का रहस्य: कौन-सा ग्रह किस चक्र को करता है प्रभावित?