Other Articles

आञ्जनेय गायत्रि ध्यानं त्रिकाल वंदनं

7views
आञ्जनेय गायत्रि ध्यानं त्रिकाल वंदनं

श्री आञ्जनेय स्वामी परदेवताभ्यो नमः
ध्यानम्
उद्यदादित्य संकाशं उदार भुज विक्रमम् ।
कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥

श्री राम हृदयानंदं भक्त कल्प महीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥

अञ्जनानन्दनं वीरं जानकी शोकनाशनम् ।
कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥

आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् ।
पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥

उल्लंघ्य सिन्धोः सलिलं सलीलं यस्शोक वह्निं जनकात्मजाय ।
आदाय तेनैव ददाह लंकां नमामि तं प्रान्जलिराञ्जनेयं ॥

अतुलित बलधामं स्वर्ण शैलाभदेहम्
दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् ।
सकल गुण निधानं वानराणां अधीशम्
रघुपति प्रिय भक्तं वात जातं नमामि ॥

गोश्पदीकृत वारशिं मशकीकृत राक्षसाम् ।
रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥

यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृत मस्तकाञ्जलिम् ।
भाश्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम् ॥

अमिषीकृत मार्तंदं गोश्पदीकृत सागरम् ।
तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥

मनोजवं मारुत तुल्य वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर यूथ मुख्यं
श्री रामदूतं शिरसा नमामि ॥
आञ्जनेय गायत्रि ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ॥
ALSO READ  11 जुलाई को सावन शुरू ,पड़ेंगे 4 सोमवार