श्री वामन स्तोत्र
श्री वामन स्तोत्र अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन । सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे ॥ 1 ॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ 2 ॥ नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥ 3॥ यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ 4 ॥ यं न जानन्ति श्रुतयो यं न जायन्ति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ 5 ॥ यस्य़ावलोकनं चित्रं मायोपद्रववारणं । जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥ 6 ॥ यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ 7 ॥ यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः । अवापुः परमां सिद्धिं...