Other Articles

उमाशतकम्

॥ उमाशतकम् ॥ प्रथमं दशकम् (आर्यावृत्तम्) फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य । पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥ १॥ कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा । आकाशान्तरपीठस्थितोत मे देवता भवति ॥ २॥ आकाशान्तरपीठस्थितैव साक्षात्पराशक्तिः । तस्या अंशव्यक्ती शशिनि सिताद्रौ च राजन्त्यौ ॥ ३॥ सङ्कल्पवातसङ्गादानन्दरसो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते वपुर्मातः ॥ ४॥ इच्छाविचित्रवीर्यात्तेजःपटलो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते विभोर्गात्रम् ॥ ५॥ इच्छायोगात्तेजसि तव भागः कश्चिदस्तीशे । विज्ञानयोगतो मुदि भाग्यस्त्वयि कश्चिदीशस्य ॥ ६॥ सम्राजौ शशभृति यौ गृहवन्तौ यौ च सितगिरिणा । तदिदं युवयोर्माया वेषान्तरमिथुनयुगलमुमे ॥ ७॥ यद्यपि विभूतिरधिकं युवयोर्विश्वाम्बिके भवति । मिथुने तथाप्यमू वां नेदिष्ठे देवि पश्यामः...
Other Articles

उमामहेश्वरस्तोत्रम्

॥ उमामहेश्वरस्तोत्रम् ॥ श्री शङ्कराचार्य कृतम् । नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नागेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥ नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥ नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥ नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥ नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥ नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥ नमः शिवाभ्यां कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥ नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् ।...
Other Articles

उज्ज्वलवेङ्कटनाथस्तोत्रम्

॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥ रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे । निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥ तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् । धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥ ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् । द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गशृङ्गाधिरूढं दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥ अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् । रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥ अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः । जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम्...
Other Articles

श्रीउच्छिष्टमहागणपति ध्यानम्

॥ श्रीउच्छिष्टमहागणपति ध्यानम् ॥ मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले । समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् । रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम् । अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३॥ पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् । नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४॥ सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् । पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५॥ ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् । महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६॥ नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् । पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥ ७॥ अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् । रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥ ८॥ गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् । अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥ ९॥ महागोप्यमहाविद्या प्रकाशितकलेबरम् । चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०॥ अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् । चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११॥ चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् । वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२॥ मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् । षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३॥ अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् । अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४॥ हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम्...
Other Articles

इन्द्राक्षीस्तोत्रम्

॥ इन्द्राक्षीस्तोत्रम् ॥ श्रीगणेशाय नमः । पूर्वन्यासः अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य, शचीपुरन्दर ऋषिः, अनुष्टुप् छन्दः, इन्द्राक्षी दुर्गा देवता, लक्ष्मीर्बीजं, भुवनेश्वरीति शक्तिः, भवानीति कीलकम् , इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः । ॐ महालक्ष्मीति तर्जनीभ्यां नमः । ॐ माहेश्वरीति मध्यमाभ्यां नमः । ॐ अम्बुजाक्षीत्यनामिकाभ्यां नमः । ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः । ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः ॐ इन्द्राक्षीति हृदयाय नमः । ॐ महालक्ष्मीति शिरसे स्वाहा । ॐ माहेश्वरीति शिखायै वषट् । ॐ अम्बुजाक्षीति कवचाय हुम् । ॐ कात्यायनीति नेत्रत्रयाय वौषट् । ॐ कौमारीति अस्त्राय फट् । ॐ भूर्भुवः स्वरोम्...
Other Articles

इन्द्रसहस्रनामस्तोत्रं

॥ इन्द्रसहस्रनामस्तोत्रं गणपतेः कृतिः ॥ इन्द्रो देवतमोऽनीलः सुपर्णः पूर्णबन्धुरः । विश्वस्य दमिता विश्वश्येशानो विश्वचर्षणिः ॥ १॥ विश्वानि चक्रिर्विश्वस्मादुत्तरो विश्वभूर्बृहन् । चेकितनो वर्तमानः स्वधयाऽचक्रया परः ॥ २॥ विश्वानरो विश्वरूपो विश्वायुर्विश्वतस्पृथुः । विश्वकर्मा विश्वदेवो व्ह्श्वतो धीरनिष्कृतः ॥ ३॥ त्रिषुजातस्तिग्मशृङ्गो देवो ब्रध्नोऽरुषश्चरन् । रुचानः परमो विद्वान् अरुचो रोचयन्नजः ॥ ४॥ ज्येष्ठो जनानां वॄषभो ज्योतिर्ज्येष्ठं सहोमहि । अभिक्रतूनां दमिता धर्ता विश्वस्य कर्मणः ॥ ५॥ धर्ता धनानं धातॄणां धाता धिरो धियेषितः । यज्ञस्य साधनो यज्ञो यज्ञवाहा अपामजः ॥ ६॥ यज्ञं जुषाणो यजतो युक्तग्राव्णोऽवितेषिरः । सुवज्ज्रश्च्यवनो योद्धा यशसो यज्ञियो यहुः ॥ ७॥ अवयाता दुर्मतीनां हन्ता पापस्य...
Other Articles

आर्यापञ्चदशीस्तोत्रम्

॥ आर्यापञ्चदशीस्तोत्रम् ॥ करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् । कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् ॥ १ ॥ एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् । शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् ॥ २ ॥ ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् । इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् ॥ ३ ॥ लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् । ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् ॥ ४ ॥ ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये । हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि ॥ ५ ॥ हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये । हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते ॥ ६ ॥ सकलमनोरथदाने सत्यपि चरणे नतस्य तव निपुणे । संसेव्यते सुरतरुः सदाज्ञलोकैर्नु कृच्छ्रफलदाता ॥ ७ ॥ कनकरुचे चटुलगते कठिनस्तनभारनम्रकृशमध्ये...
Other Articles

आर्त्तत्राणस्तोत्रम्

॥ आर्त्तत्राणस्तोत्रम् ॥ अप्पयदीक्षितविरचितम् क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १॥ क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २॥ मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः । नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३॥ ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्त्तिहा । पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्घोषयन् आर्त्तत्राणपरायणः स...
1 27 28 29 30 31 486
Page 29 of 486