कुलानन्द तन्त्रम्
कुलानन्द तन्त्रम् ॐ नमो भैरवाय । कैलासशिखरासीनं देवदेव जगद्गुरुम् । परिपृच्छत्युमादेवी एकान्ते ज्ञानमुत्तमम् ॥ १॥ भेदनिमुत्तमभेदं यथा देहव्यवस्थितम् । कथयस्व पुराभेदं कुलानन्देषु चूत्तमम् ॥ २॥ स्थानान्तरविशेषण विज्ञानं कथयस्व मे । सद्यः प्रत्यकारकं यथा देहे व्यवस्थितम् ॥ ३॥ पाशस्तोभञ्च बेधनञ्च धूननं कम्पनं तथ । खेचरं समरसञ्चैव बलीपलितनाशनम् ॥ सर्वं तत्तु सुरेश्वर कथयस्व मम प्रभो ॥ ४॥ भैरव उवाच । शृणु देवि प्रवक्ष्यामि पुरभेदं समुत्तमम् । एतत् कौलिकं ज्ञानं कुलानन्दे चाष्टोत्तमः ॥ ५॥ ब्रह्मस्थाने यत् कमलं चतुःषष्ठिदलान्वितम् । तत्रैव मनसा रोध्य लक्षयेद्दीपशिखान् व्रती ॥ ६॥ पश्यति सर्वदेहे तु दिव्यदृष्टिर्वरानने । तेन लक्षितमात्रेण...