Other Articles

श्रीवेङ्कटेश क्षमात्रयस्त्रिंशच्छ्लोकी

5views

श्रीवेङ्कटेश क्षमात्रयस्त्रिंशच्छ्लोकी

श्रीमद्वेङ्कटशैलवर्यशिखरे रत्नप्रदीपो महां
     त्रैलोक्यान्धतमिस्र चूषणकृते यो जाज्वलीति स्फुटम् ।
कल्याणव्रजरोध्यनादिसु दृढाघध्वान्त विध्वंसनं
     कुर्वन्मङ्गलमातनोतु नितरामात्मानुरूपं स नः ॥ १॥

महामोहमय्यां भवाब्ध्यन्तरीपे
     महाधन्वमह्यां मदीयं चरन्तम् ।
मृगं स्वान्तनामानमार्ते परीतं
     महांहोमृगेन्द्रै रमेशाशु रक्ष  ॥ २॥

प्रभो वेङ्कटेश प्रभा भूयमी ते
     तमः सञ्छिनर्त्ति प्रदेशे ह्यशेषे ।
अहो मे हृदद्रेर्गुहागूढमन्धन्
     तमो नैति नाशं किमेतन्निदानम् ॥ ३॥

अथावैमि वैतन्निदानं हृदाहं
     सहा त्वत्सपर्याविपर्यासहेतौ ।
कुमार्गे महामोहमार्गे सनिष्ठः
     सुनिष्ठातृभावं प्रभो यद्वहामि  ॥ ४॥

जनं तावकीनं किमेनं सुदीनं
     वृथाजातमेवं वृथोपेक्षसे त्वम् ।
रमेशैवमेवं वृथोपेक्षसे चेत्
     क्षमायाः प्रकाशो मदन्येन केन  ॥ ५॥

मदन्यः क्व विप्रेषु वैश्येषु-
     राजस्वथो शूद्रजातिष्वथो सङ्करेषु ।
निकृष्टः क्व दृष्टः क्व वा ते क्षमायाः
     प्रकाशो रमेष ध्रुवं स्यात्प्रहीणः ॥ ६॥

रमा सा क्व याता क्षमोद्वोधिनी ते
     ममातुल्यमाता तवोरस्थलस्था ।
ममाभाग्यजातात्तवाभोग्यभूता
     रमापि प्रभो किं प्रमोदावहा ते ॥ ७॥

क्षमा यातु गुप्ता रमाया विधेयं
     क्व वात्सल्यभूमा यतो दोषिवृन्दम् ।
महानन्दमेति ह्यहो मत्प्रवर्जे
     प्रवृत्तिः किमस्य प्रभो वेङ्कटेश ॥ ८॥

दया सा क्व याता यया दुःखिबन्धो
     परेषां विषादो वृषाद्रीश नाश्यः ।
ममामन्ददुःखप्रणाशे प्रकाशं
     न सा यातुमर्हा किमस्याव्रतं किम् ॥ ९॥

परित्यज्य भोगं परव्योमनिस्वं
     महानन्दधामन्यपीहाहि शैले ।
यदर्थे समायास्तदर्थे विचिन्त्य
     प्रभो वेङ्कटेश द्रुतं मां सुरक्ष ॥ १०॥

पुरा कस्य चिद्रो महापापदाहात्
     अभूत्ते भिदा श्रीगिरे वेङ्कटेति ।
ममा तुल्यपाप प्रदाहात्तवाद्य
     अभिधा स्यान्नवीना रमेशाखिलेड्या ॥ ११॥

ममामन्द पापप्रवृत्तेर्निवृत्तिं
     यदीक्षेत भो भो भवान् रक्षितुं माम् ।
तदामन्दकल्लोलजालाकुलेब्धौ
     भवान् स्नातुमिच्छेद्विरामं निरीक्ष्य ॥ १२॥

क्व तञ्चक्रमास्ते निकृत्तारिचक्रं
     भवद्भक्तचक्रे शुभं येन चक्रे ।
हरे चक्रमेतत्तवैतज्जनस्य
     प्रभूंताघचक्रं न किम् छेत्तुमीष्टे ॥ १३॥

नियुज्य स्वचक्रं ममाघौघचक्रं
न चेच्छेत्स्यसि त्वं नदा कस्य हानिः
तवैवेति सत्यं यदेतज्जगत्या
     वशं कोऽपि यायादिनीक्षा कृतेयम् ॥ १४॥

निकृष्टोत्तमं मा विक्रुद्वं विवायानु
     कम्पां विदध्या यदि त्वं रमेश ।
तदैतत्समीक्ष्येह वश्या भवेयु
     स्तवानेकलोका निकृष्टाश्च शिष्टा ॥ १५॥

ममोत्तुङ्गचेतस्तुरंगोधिरोहो
     चितस्तेधिरूढो मनोजाधिराजा ।
निरस्याशु तं भोः सभारोह तं किं
     वृथोपेक्षसे त्वं त्वं त्वदीयं तुरङ्गम् ॥ १६॥

मदीये त्वदीयालयेनादिसिद्धे
     ह्वदीश त्वदन्ये परीवारयुक्ताः ।
कदाचित्समागत्य तिष्ठन्ति तान्नो
     निरस्येर्यदि स्यात्तदीयं गृहं तत् ॥ १७॥

महादुष्टकाम प्रभृत्यन्त्यवर्णो
     षितेस्वान्तसद्मन्यशुद्धे मदीये ।
निरस्याशु तं ते पदाम्भोजयुग्म
     प्रवेशे न शुद्धं गृहं तद्विधेहि ॥ १८॥

भवद्दिव्यदेह प्रभादीपजाल
     प्रभाभिर्विधुन्वन् प्रकृष्टं तमिस्रम् ।
त्वदीयैः सह त्वं कुटुम्बै रमेश
     वसास्मिन् गृहे मे सुखी स्वान्तनाम्नि ॥ १९॥

अविद्यार्कवृक्षं हृदावालरूढ
     ममानादिमूलं विभिन्दन् विमूलम् ।
समावाप्य बीजं त्वदीयांघ्रिभक्ति
     प्रकृष्टाम्रबीजम् रमेशेह रक्ष ॥ २०॥

त्वदाज्ञावशेनादधानोऽपि किञ्चित्
     स्वतन्त्रोऽहमेवं करोमी त्यहंयुः ।
सुधा भावमेनं वृथा भावय त्वं
     त्वदाधीन्यभावं सदा भावयेश ॥ २१॥

बहिर्भावयामि स्ववाचाखिलानि
     त्वदीयान्यमूनीति भो वेङ्कटेश ।
हृदि त्वध्यवस्ये ममैवोपभोग्य
     अन्यमूनीति नित्यं जहीदं रमेश ॥ २२॥

परस्वस्पृहा मे सदा वोभवीति
     प्रथीयस्यमुष्याशुभेनैमि मोदम् ।
परस्यासु नाशे तदीयं मदीयं
     भवेदिव्यहोमे दुराशां जहीश ॥ २३॥

परालाभलब्धप्रणाशाववेक्ष्य
     प्रपद्ये महालाभयुग्मप्रमोदम् ।
धनाप्तौ परस्य स्वीकीयस्य नाशं
     भजामीत्यसूयां जहि श्रीनिवास ॥ २४॥

परस्वापहारे मम स्वापहारः
     परानर्थदृष्टौ ममानर्थलाभः ।
परानन्दलाभे ममानन्दलाभो
     महानित्यमूं मे मनीषां विधत्स्व ॥ २५॥

महाकण्टकारिं महासङ्कटं
     भोस्त्वंघ्रिप्रफुल्लारविन्दार्पणेन ।
इमं देशमाधा मुदं संदधानं
     भवद्भक्तसंघं महान्तं रमेश ॥ २६॥

अकल्याणमेतं सकल्याणमाधाः
     किमत्रादिमूलं न जाने रमेश ।
अथावैमि हेतुं तवाध्याजभूयः
     कृपापारिसिन्धो प्ररीराहमेव ॥ २७॥

सकृते पदाब्जप्रचारेण नालं
     विवा यान्यदेशे निवासे निकामम् ।
इहैवास त्वं ममत्वं वह त्वं
     किमर्थे तवार्थे त्वदन्यः प्रपश्ये ॥ २८॥

अथैकोऽपि को वा त्वदर्थे त्वदन्यः
     समालक्षितुं वा समारक्षितुं वा ।
समर्थोऽस्ति लक्ष्मीपते वेङ्कटाद्रेः
     पते तत्र किम् वाधिकं नेह किं वा ॥ २९॥

यद्रप्यस्ति तत्र त्वदावासभूम्ना
     तदत्रापि च स्यत्त्वदीयागमश्चेत् ।
ममामन्द पापप्रवृत्तिं निरीक्ष्य
     अगमश्चेन्न ते स्यादत्ता कस्य हानिः ॥ ३०॥

अथाल्पस्य हेतोर्विहातुं बहु स्यात्
     तवेदं न युक्तं प्रभो वेङ्कटेश ।
अथानल्प पापप्रवृत्तिर्मदीया
     निवर्त्या न किं तेऽखिलाघौघनाशिन् ॥ ३१॥

मृगपतिपदं श्वारूढश्वेन्निबद्धसटाजटीम-
     प्यनलमिभराट्कुंभाभेदिप्रभूतरवे यया ।
प्रथमगुरुभिर्गीतं नेच्ये विडम्बयता मया
     शुनयसदृशं हास्यं प्राप्तं तथा नियतं त्विदम् ॥ ३२॥

इत्थं श्री वेङ्कटाद्रिप्रभुपदयुगली
भक्तवर्यस्य गङ्गाविष्णोर्याञ्चाविशेषाद्
     व्यरचि कृतिरियं वेङ्कटेशक्षमायः ।
श्रीशैलानन्तवर्यान्वयसमुदयिना
वेङ्कटार्येण भक्त्या निक्षिप्ता तत्पदाब्जे
     मुदमतितनुतां तन्वतां स्वान्तदेशे ॥ ३३॥

॥ इति श्रीमदनन्ताचार्यविरचितं श्री वेङ्कटेश
क्षमात्रयस्त्रिंशच्छ्लोकीस्तोत्रं सम्पूर्णम्  ॥
ALSO READ  सत्यव्रत श्रीमहाकालानुग्रही – अमलेश्वर की पावन कथा