Other Articles

श्री शिवस्तुतिः

149views

 

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं (शम्भुमुमापतिं)
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १॥

वन्दे सर्वजगद्विहारमतुलं वन्देऽन्धकध्वंसिनं
वन्दे देवशिखामणिं शशिनिभं वन्दे हरेर्वल्लभम् ।
वन्दे नागभुजङ्गभूषणधरं वन्दे शिवं चिन्मयं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ २॥

वन्दे दिव्यमचिन्त्यमद्दयमहं वन्देऽर्कदर्पापहं (सोममचिन्त्यमद्वयमजं)
(वन्दे व्योमसभापतिं नटपतिं वन्देऽर्कदन्तापहं)
वन्दे निर्मलमादिमूलमनिशं वन्दे मखध्वंसिनम् ।
वन्दे सत्यमनन्तमाद्यमभयं वन्देऽतिशान्ताकृतिं (वन्दे नित्यमगेन्द्रजाप्रियकरं)
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३॥

वन्दे भूरथमम्बुजाक्षविशिखं वन्दे श्रुतित्रोटकं (वन्दे त्रयीवाजिनं)
वन्दे शैलशरासनं फणिगुणं वन्देऽब्धितूणीरकम् ।
वन्दे पद्म्जसारथिं पुरहरं वन्दे महाभैरवं
वन्दे भक्तजनाश्रयञ्च वरदं वन्दे शिवं शङ्करम् ॥ ४॥

ALSO READ  श्री महाकाल धाम के स्वप्नद्रष्टा स्व. रूपक त्रिपाठी का महान स्वप्न हुआ साकार  "AstroShrine" ऐप अब Play Store पर उपलब्ध

वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं
वन्दे व्योमगतं जटासुमुकुटं चन्द्रार्धगङ्गाधरम् ।
(वन्दे व्योमकचं जटासुमकुटं वन्देऽजगङ्गाधरम् ।)
वन्दे भस्मकृतत्रिपुण्डुजटिलं वन्देष्टमूर्त्यात्मकं (वन्दे व्योमकचञ्जटासुमकुटं)
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ५॥

वन्दे कालहरं हरं विषधरं वन्दे मृडं धूर्जटिं
वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम् ।
वन्दे विप्रसुराचिताङ्घ्रिकमलं वन्दे भगाक्षापहं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ६॥

वन्दे मङ्गलराजताद्रिनिलयं वन्दे सुराधीश्वरं (वन्दे राजतपर्वताग्रनिलयं, तारकपर्वताप्रनिलयं)
वन्दे शङ्करमप्रमेयमतुलं वन्दे यमद्वेषिणम् ।
वन्दे कुण्डलिराजकुण्डलधरं वन्दे सहस्राननं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ७॥

वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरूपेक्षणं
वन्दे भूतगणेशमव्ययमहं वन्देऽर्थराज्यप्रदम् ।
वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशूलायुधं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ८॥

ALSO READ  श्री महाकाल धाम के स्वप्नद्रष्टा स्व. रूपक त्रिपाठी का महान स्वप्न हुआ साकार  "AstroShrine" ऐप अब Play Store पर उपलब्ध

वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देऽन्धकारापहं (सूक्ष्ममनन्तमाद्यमनघं)
वन्दे फूलननन्दिभृङ्गिविनतं वन्दे सुपर्णावृतम् । (रावणबाणभृङ्गिविनुतं)
वन्दे शैलसुतार्धभागवपुषं वन्देऽभयं त्र्यम्बकं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ९॥

वन्दे पावनमम्बरात्मविभवं वन्दे महेन्द्रेश्वरं
(वन्दे पावनमम्बरात्मममलं वन्दे महादैवतं)
वन्दे भक्तजनाश्रयामरतरुं वन्दे नताभीष्टदम् । (भक्तवराश्रयामरतरं)
वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीश्वरं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्