
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं (शम्भुमुमापतिं)
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १॥
वन्दे सर्वजगद्विहारमतुलं वन्देऽन्धकध्वंसिनं
वन्दे देवशिखामणिं शशिनिभं वन्दे हरेर्वल्लभम् ।
वन्दे नागभुजङ्गभूषणधरं वन्दे शिवं चिन्मयं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ २॥
वन्दे दिव्यमचिन्त्यमद्दयमहं वन्देऽर्कदर्पापहं (सोममचिन्त्यमद्वयमजं)
(वन्दे व्योमसभापतिं नटपतिं वन्देऽर्कदन्तापहं)
वन्दे निर्मलमादिमूलमनिशं वन्दे मखध्वंसिनम् ।
वन्दे सत्यमनन्तमाद्यमभयं वन्देऽतिशान्ताकृतिं (वन्दे नित्यमगेन्द्रजाप्रियकरं)
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३॥
वन्दे भूरथमम्बुजाक्षविशिखं वन्दे श्रुतित्रोटकं (वन्दे त्रयीवाजिनं)
वन्दे शैलशरासनं फणिगुणं वन्देऽब्धितूणीरकम् ।
वन्दे पद्म्जसारथिं पुरहरं वन्दे महाभैरवं
वन्दे भक्तजनाश्रयञ्च वरदं वन्दे शिवं शङ्करम् ॥ ४॥
वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं
वन्दे व्योमगतं जटासुमुकुटं चन्द्रार्धगङ्गाधरम् ।
(वन्दे व्योमकचं जटासुमकुटं वन्देऽजगङ्गाधरम् ।)
वन्दे भस्मकृतत्रिपुण्डुजटिलं वन्देष्टमूर्त्यात्मकं (वन्दे व्योमकचञ्जटासुमकुटं)
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ५॥
वन्दे कालहरं हरं विषधरं वन्दे मृडं धूर्जटिं
वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम् ।
वन्दे विप्रसुराचिताङ्घ्रिकमलं वन्दे भगाक्षापहं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ६॥
वन्दे मङ्गलराजताद्रिनिलयं वन्दे सुराधीश्वरं (वन्दे राजतपर्वताग्रनिलयं, तारकपर्वताप्रनिलयं)
वन्दे शङ्करमप्रमेयमतुलं वन्दे यमद्वेषिणम् ।
वन्दे कुण्डलिराजकुण्डलधरं वन्दे सहस्राननं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ७॥
वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरूपेक्षणं
वन्दे भूतगणेशमव्ययमहं वन्देऽर्थराज्यप्रदम् ।
वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशूलायुधं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ८॥
वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देऽन्धकारापहं (सूक्ष्ममनन्तमाद्यमनघं)
वन्दे फूलननन्दिभृङ्गिविनतं वन्दे सुपर्णावृतम् । (रावणबाणभृङ्गिविनुतं)
वन्दे शैलसुतार्धभागवपुषं वन्देऽभयं त्र्यम्बकं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ९॥
वन्दे पावनमम्बरात्मविभवं वन्दे महेन्द्रेश्वरं
(वन्दे पावनमम्बरात्मममलं वन्दे महादैवतं)
वन्दे भक्तजनाश्रयामरतरुं वन्दे नताभीष्टदम् । (भक्तवराश्रयामरतरं)
वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीश्वरं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्