Other Articles

आनन्दसागरस्तवः

॥ आनन्दसागरस्तवः ॥ विज्ञापनार्हविरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि विश्वमातुः । अव्याजभूतकरुणापवनापविद्धा- न्यन्तः स्मराम्यहमपाङ्गतरङ्गितानि ॥ १ ॥ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् । इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ॥२॥ आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा । यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ३ ॥ पर्याकुले मनसि वाचि परिस्खलन्त्यां आवर्तगर्त इव चक्षिषि घूर्णमाने । कस्तेऽभिदास्यति शिवे ममतामवस्थां काले दयस्व कथयामि तवाधुनैव ॥ ४ ॥ भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीणजन्तुरिव पौरजनेषु लोकः । अन्यत्र देवि भवदीयपदारविन्दा- दाकृष्यमाणमपि मे हृदयं न याति ॥ ५ ॥ अङ्गीकुरु त्वमवधीरय...
Other Articles

आद्यास्तोत्रम्

॥ आद्यास्तोत्रम् ॥ ॐ नम आद्यायै । शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥ मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे । अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २॥ द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि । मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३॥ नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् । लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ ४॥ राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता । ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५॥ इन्द्राणी अमरावत्यामविका वरुणालये। यमालये कालरूपा कुबेरभवने शुभा ॥ ६॥ महानन्दाग्निकोने च वायव्यां...
Other Articles

महामहिमान्वितं आदित्यस्तोत्रम्

॥ महामहिमान्वितं आदित्यस्तोत्रम् ॥ अथ श्रीमदप्पय्यदीक्षितविरचितं महामहिमान्वितं आदित्यस्तोत्रम् ॥ विस्तारायाममानं दशभिरुपगतो योजनानां सहस्रैः चक्रे पञ्चारनाभित्रितयवति लसन् नेमिषट्के निविष्टः । सप्तच्छन्दस्तुरङ्गाहितवहनधुरो हायनांशत्रिवर्ग व्यक्ताकॢप्ताखिलाङ्गः स्फुरतु मम पुरः स्यन्दनश्चण्डभानोः ॥ १॥ आदित्यैरप्सरोभिर्मुनिभिरहिवरैर्ग्रामणीयातुधानैः गन्धर्वैर्वालखिल्यैः परिवृतदशमांशस्य कृत्स्नं रथस्य । मध्यं व्याप्याधितिष्ठन् मणिरिव नभसो मण्डलश्चण्डरश्मेः ब्रह्मज्योतिर्विवर्तः श्रुतिनिकरघनीभावरूपः समिन्धे ॥ २॥ निर्गच्छन्तोऽर्कबिम्बान् निखिलजनिभृतां हार्दनाडीप्रविष्टाः नाड्यो वस्वादिबृन्दारकगणमधुनस्तस्य नानादिगुत्थाः । वर्षन्तस्तोयमुष्णं तुहिनमपि जलान्यापिबन्तः समन्तात् पित्रादीनां स्वधौषध्यमृतरसकृतो भान्ति कान्तिप्ररोहाः॥ ३॥ श्रेष्ठास्तेषां सहस्रे त्रिदिववसुधयोः पञ्चदिग्व्याप्तिभाजां शुभ्रांशुं तारकौघं शशितनयमुखान् पञ्च चोद्भासयन्तः । आरोगो भ्राजमुख्यास्त्रिभुवनदहने सप्तसूर्या भवन्तः सर्वान् व्याधीन् सुषुम्नाप्रभृतय इह मे सूर्यपादाः क्षिपन्तु ॥ ४॥ आदित्यानाश्रिताः षण्णवतिगुणसहस्रान्विता रश्मयोऽन्ये मासे मासे विभक्तास्त्रिभुवनभवनं पावयन्तः...
Other Articles

श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम्

॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः ॥ आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ ३॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ ४॥ पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥ ५॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः ॥ ६॥ कपिसेनानायकश्च भविष्यच्चतुराननः । कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥ ७॥ सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः । गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥ ८॥ कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः । सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ ९॥ वानरः केसरिसुतः सीताशोकनिवारकः । अञ्जनागर्भसम्भूतो बालार्कसदृशाननः ॥ १०॥ विभीषणप्रियकरो दशग्रीवकुलान्तकः । लक्ष्मणप्राणदाता च...
Other Articles

श्रीआञ्जनेयसहस्रनामस्तोत्रम्

॥ श्रीआञ्जनेयसहस्रनामस्तोत्रम् ॥ ऋषय ऊचुः । ऋषे लोहगिरिं प्राप्तः सीताविरहकातरः । भगवान् किं व्यधाद्रामस्तत्सर्वं ब्रूहि सत्वरम् ॥ वाल्मीकिरुवाच । मायामानुष देहोऽयं ददर्शाग्रे कपीश्वरम् । हनुमन्तं जगत्स्वामी बालार्कसम तेजसम् ॥ स सत्वरं समागम्य साष्टाङ्गं प्रणिपत्य च । कृताञ्जलिपुटो भूत्वा हनुमान् राममब्रवीत् ॥ श्री हनुमानुवाच । धन्योऽस्मि कृतकृत्योऽस्मि दृष्ट्वा त्वत्पादपङ्कजम् । योगिनामप्यगम्यं च संसारभय नाशनम् । पुरुषोत्तमं च देवेशं कर्तव्यं तन्निवेद्यताम् ॥ श्री रामचन्द्रोवाच । जनस्थानं कपिश्रेष्ठ कोऽप्यागत्य विदेहजाम् । हृतवान् विप्रसंवेशो मारीचानुगते मयि ॥ गवेष्यः साम्प्रतं वीरः जानकी हरणे परः । त्वया गम्यो न को देशस्त्वं च ज्ञानवतावरः ॥ सप्तकोटि महामन्त्रमन्त्रितावयवः...
Other Articles

श्रीआंजनेय द्वादशनामस्तोत्रम्

॥ श्रीआंजनेय द्वादशनामस्तोत्रम् ॥ हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १॥ उदधिक्रमणश्चैव सीताशोकविनाशकः । लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २॥ द्वादशैतानि नामानि कपींद्रस्य महात्मनः । स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः । तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥...
Other Articles

आञ्जनेय गायत्रि ध्यानं त्रिकाल वंदनं

आञ्जनेय गायत्रि ध्यानं त्रिकाल वंदनं श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम हृदयानंदं भक्त कल्प महीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ अञ्जनानन्दनं वीरं जानकी शोकनाशनम् । कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥ आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् । पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥ उल्लंघ्य सिन्धोः सलिलं सलीलं यस्शोक वह्निं जनकात्मजाय । आदाय तेनैव ददाह लंकां नमामि तं प्रान्जलिराञ्जनेयं ॥ अतुलित बलधामं स्वर्ण शैलाभदेहम् दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् । सकल गुण निधानं वानराणां...
Other Articles

अष्टादशशक्तिपीठस्तोत्रम्

॥ अष्टादशशक्तिपीठस्तोत्रम् ॥ लङ्कायां शाङ्करी देवी कामाक्षी काञ्चिकापुरे । प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥ अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका । कोल्हापुरे महालक्ष्मी माहूर्ये एकवीरिका ॥ उज्जयिन्यां महाकाली पीठिक्यां पुरुहूतिका । ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटके ॥ हरिक्षेत्रे कामरूपा प्रयागे माधवेश्वरी । ज्वालायां वैष्णवी देवी गया माङ्गल्यगौरिका ॥ वारणस्यां विशालाक्षी काश्मीरेषु सरस्वती । अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥ सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् । सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ॥ इति अष्टादशशक्तिपीठस्तुतिः ।...
1 28 29 30 31 32 486
Page 30 of 486