Other Articles

अनन्तशक्तिस्तवः

अनन्तशक्तिस्तवः प्रसान्तपदतः स्वतः स्फुरति येयमाद्यप्रभा समतगुणगर्भिणी विविधमन्त्रवर्णाम्बिका । निरुत्तरचमत्कृतिप्रसरसारसम्बोधिका जयत्यगमजा त्रिधा त्रिपुरसुन्दरी साव्यया ॥ १॥ इच्छाज्ञानक्रियाख्यं त्रितयमिह परं वाग्भवादिक्रमौघै- र्या देवी निर्विभागा परमशिवपदा स्फारयन्ती नितान्तम् । स्वातन्त्र्योल्लासवृत्तिर्निरवधिविभवा निर्मला निर्णयेता- (निर्णयेदा) वर्णावर्णकारस्फुरित्तनुलता सा ज्यत्याद्यशक्तिः ॥ २॥ वर्गैरष्टभिराकृतिस्तनगतिः शीर्षांसहृत्पृष्ठगै- र्गुह्याङ्घ्रिक्रमनिष्ठितस्तव सदा ज्ञानप्रतानप्रदा । चिद्रूपा परमा विभाति नितरां देव्यक्षगाक्षाश्रया पीठाज्ञानिलया त्रिमूर्तिवसतिः कोलापहा कौळिनी ॥ ३॥ निरुत्तरेच्छोभयसामरस्या- द्या मूर्तिराद्या प्रविभाति दीप्ता । आनन्ददाहार्धकलार्धगर्भा तां नौमि श‍ृङ्गाटवरासनस्थाम् ॥ ४॥ हुतवहरविसोमब्रह्मचक्रान्तराले स्फुरति निरवकाशा शम्भुशक्तिः स्वतन्त्रा । सकलभुवनवर्गं पूरयन्ती स्वभाभिः परमशिवधराद्या भिन्नमूर्तिं नुमस्ताम् ॥ ५॥ (नमस्ताम्) ब्रह्मव्योम्नो विकसितगतिः शक्तिराद्या स्फुरन्ती मायागर्भे समरसतया व्यक्तरूपं विधाय । त्यक्त्वा भूमिं...
Other Articles

एकश्लोकी दुर्गा

एकश्लोकी दुर्गा ॐ दुर्गायै नमः । या अम्बा मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षण चन्डमुण्डमथिनी या रक्तबीजाशिनी । शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धलक्ष्मीः परा सा दुर्गा नवकोटिविश्वसहिता मां पातु विश्वेश्वरी ॥...
Other Articles

अर्धनारीश्वरत्रिशती अथवा ललितारुद्रत्रिशती

अर्धनारीश्वरत्रिशती अथवा ललितारुद्रत्रिशती नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ॐ राजराजेश्वर्यै नमः ॐ । ॐ अर्धनारीश्वराय नमः ॐ । ॐ हिरण्यबाहवे नमः ॐ । १. ॐ ककाररूपायै सेनान्ये नमः ॐ । २. ॐ कल्याण्यै दिशां च पतये नमः ॐ । ३. ॐ कल्याणगुणशालिन्यै वृक्षेभ्यो नमः ॐ । ४. ॐ कल्याणशैलनिलयायै हरिकेशेभ्यो नमः ॐ । ५. ॐ कमनीयायै पशूनां पतये नमः ॐ । ६. ॐ कलावत्यै सस्पिञ्जराय नमः ॐ । ७. ॐ कमलाक्ष्यै त्विषीमते नमः ॐ । ८. ॐ कल्मषघ्न्यै पतीनां पतये नमः ॐ । ९. ॐ...
Other Articles

अकुलवीर तन्त्रम्

अकुलवीर तन्त्रम् श्रीमच्छन्दपादकेभ्यो नमः । श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् । सर्वमाधारगम्भीरमचलं व्यपकं परम् । अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् । गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥ अनग्रहाय लोकानां सिद्धनाथेन भाषितम् । गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥ संसारार्णवमग्नातां भूतानां महदाश्रयम् । यथा नदीनदाः सर्वे सागरे समुपागताः ॥ ३॥ तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः । सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः ॥ ४॥ सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः । अनानन्तमलैर्ग्रस्ता महामायान्धच्छदिताः ॥ ५॥ शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) । न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् ॥ ६॥ संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा । बौधास्तु अरिहन्ता ये सोमसिद्धान्तवादिनः ॥...
Other Articles

श्रीमातङ्गी स्तुतिः

  श्रीमातङ्गी स्तुतिः मातङ्गीं नवयावकार्द्र चरणामुल्लासि कृष्णांशुकां वीणापुस्तक धारिणीं नतकुचां मुक्ताप्रवालावलिम् । श्यामाङ्गीं शशिशङ्खकुण्डलधरां दन्तप्रभासुस्मितां आकर्णालक-वेणि-कञ्ज-नयनां ध्यायेच्छुक श्यामलाम् ॥ १॥ कर्पूर शोभि कर्णाभरणाभिरामां माणिक्यभूषां सुमुखारविन्दाम् । हालामदाघूर्णित लोचनाभां बालां भजे बालतमाल नीलाम् ॥ २॥ कस्तूरी तिलकाभिराम रचिता कर्पूर ताटङ्किनी बाला नीलविशालचारुवदना प्रालम्बिधम्मिल्लका । हारोदञ्चित पीवरस्तनतटी हालामदोल्लासिनी श्यामा काचन मोहिनी विजयते चञ्चत्प्रपञ्चीकृता ॥ ३॥ अंशे वेणीं चिकुरकुसुमां चूलिकां नीलचेलां मुक्ताभूषाङ्करयुगलतां वल्लकीं वादयन्तीम् । माध्वीमत्तां मधुकर निनदां श्यामलां कोमलाङ्गीं मातङ्गीं तां सकलफलदां सन्ततं भावयामि ॥ ४॥ वीणा पुस्तक धारिणीं स्मितमुखीं तालीदलाकल्पित स्फायत्कुण्डलभूषणां कुवलयश्यामां कुरङ्गीदृशीम् । उत्तुङ्गस्तनकुम्भयुग्म विलसत्काश्मीरपत्रावलीं मातङ्गीं पदकैरवं नवचरच्चन्द्रातपत्राम्भजे ॥ ५॥...
Other Articles

श्री महाकालाष्टकम्

श्रीमहाकालाष्टकम् प्रणम्य खारूनतीरसंस्थितमहाकालं परब्रह्मरूपं ज्वलज्जटाजूटगङ्गाधरं त्रिनयनं कालान्तकं नित्यशान्तम्। भवभयहारि मनोहरं मुनिवरैः सेव्यं समाधिस्थितं अमलेश्वरं शशिशेखरं शरणं महाकालमीडे सदा॥1 गले गजचर्मविभूषणं, भस्माङ्गरागं दिगम्बरं कपालपाणिं करालवक्त्रम्, करुणारसार्द्रं शमप्रदम्। विनाशनं भवरोगणां, विधिविष्णुसेव्यं शिवं परं स्मरान्तकं खड्गहस्तकं, महाकालनाथं नमाम्यहम्॥2 यः कालकालो युगान्तकृत्, सुरासुराणां विनाशकृत् समस्तलोकप्रपञ्चधारी, समाधिगम्यः सदा सुखी। स ऋद्धिदः सिद्धिदः शिवो, मनीषिणां मोक्षसाधनः स खारुनीयं महेश्वरः, नमामि देवं निरामयम्॥3 विक्रमदित्यप्रपूजितं शशिकल्पशुद्धं महामुनिभिः शङ्कराचार्यनिषेवितं, समराग्रणीभिः कथाश्रयम्। नरपतिनां वरदं सदा, सुरवृन्दवन्दितपादुकम् द्विजवरदं, शरणागतं, नमामि शंभुं अमोघकम्॥4 अमलधरा सुनीरा यस्य समीपे सदा वहति न जनपदं न नगरी, तपोवनं तदेव च। यत्र लिंगं स्वयंभूतं, नष्टकृतान्तदर्पणम् स तु...
Other Articles

श्री वामन स्तोत्र

श्री वामन स्तोत्र अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन । सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे ॥ 1 ॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ 2 ॥ नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥ 3॥ यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ 4 ॥ यं न जानन्ति श्रुतयो यं न जायन्ति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ 5 ॥ यस्य़ावलोकनं चित्रं मायोपद्रववारणं । जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥ 6 ॥ यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ 7 ॥ यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः । अवापुः परमां सिद्धिं...
Other Articles

श्री हनुमान द्वादश नाम स्तोत्र

  श्री हनुमान द्वादश नाम स्तोत्र   हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल:। रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥ उदधिक्रमणश्चैव सीताशोकविनाशन:। लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः। स्वापकाले प्रबोधे च यात्राकाले च य: पठेत् ॥ तस्य सर्वभयं नास्ति रणे च विजयी भवेत्। राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥  ...
Other Articles

दारिद्र्य दहन शिव स्तोत्र

दारिद्र्य दहन शिव स्तोत्र   विश्वेश्वराय नरकार्णव तारणाय कणामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥१॥ गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय । गंगाधराय गजराजविमर्दनाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥२॥ भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय । ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥३॥ चर्मम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय । मंझीरपादयुगलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥४॥ पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डिताय । आनन्दभूमिवरदाय तमोमयाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥५॥ भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय । नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥६॥ रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय । पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥७॥ मुक्तेश्वराय फलदाय...
Other Articles

श्री गणेश पंचरत्न स्तोत्र

श्री गणेश पंचरत्न स्तोत्र मुदा करात्त मोदकं सदा विमुक्ति साधकम् । कलाधरावतंसकं विलासिलोक रक्षकम् । अनायकैक नायकं विनाशितेभ दैत्यकम् । नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥ नतेतराति भीकरं नवोदितार्क भास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥ समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् । दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ 3 ॥ अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनम् । पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् । प्रपञ्च नाश भीषणं धनञ्जयादि भूषणम्...
Other Articles

श्री लक्ष्मी स्तोत्र – इन्द्रकृत

श्री लक्ष्मी स्तोत्र - इन्द्रकृत इन्द्र उवाच  ऊँ नम: कमलवासिन्यै नारायण्यै नमो नम: । कृष्णप्रियायै सारायै पद्मायै च नमो नम: ।।1।। पद्मपत्रेक्षणायै च पद्मास्यायै नमो नम: । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नम: ॥2॥ सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नम: । सुखदायै मोक्षदायै सिद्धिदायै नमो नम: ॥3॥ हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नम: । कृष्णवक्ष:स्थितायै च कृष्णेशायै नमो नम: ॥4॥ कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने । सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नम: ॥5॥ शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नम: । नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नम: ॥6॥ वैकुण्ठे या महालक्ष्मीर्लक्ष्मी: क्षीरोदसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥7॥ गृहलक्ष्मीश्च गृहिणां...
Other Articles

श्री महालक्ष्मी स्तोत्र – विष्णुपुराणान्तर्गतम्

श्री महालक्ष्मी स्तोत्र - विष्णुपुराणान्तर्गतम्   श्रीगणेशाय नमः श्रीपराशर उवाच  सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ १॥ इन्द्र उवाच नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ २॥ पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥ ३॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ४॥ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ ५॥ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥ ६॥ का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगचिन्त्यं...
Other Articles

अथ सप्तश्लोकी दुर्गा स्तुति

।।अथ सप्तश्लोकी दुर्गास्तुति   ।। शिव उवाच- देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः।। देव्युवाच- शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्। मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते।। विनियोग- ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः। ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाय महामाया प्रयच्छति।1। दुर्गे स्मृता हरसि भीतिमशेषजन्तोः, स्वस्थैः स्मृता मतिमतीव शुभां ददासि। दारिद्र्यदुःखभयहारिणी का त्वदन्या, सर्वोपकारकरणाय सदार्द्रचित्ता।2। सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके। शरण्ये त्रयंबके गौरि नारायणि नमोस्तु ते।3। शरणागतदीनार्तपरित्राणपराणये। सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते।4। सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते। भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तु ते।5।...
Other Articles

नवग्रह स्तोत्र

नवग्रह स्तोत्र   रवि: जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥ चंद्र: दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ मंगळ: धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥ बुध: प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥ गुरु: देवानांच ऋषिणांच गुरुंकांचन सन्निभं । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ ५॥ शुक्र: हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥ शनि: नीलांजनसमाभासं रविपुत्रं यमाग्रजम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥ राहू: अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं...
Other Articles

श्री सूक्त

॥ श्री सूक्त ॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्...
Other Articles

पुरुष सूक्त

पुरुष सूक्त सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतोवृत्वात्यतिष्ठद्दशांगुलम्॥१ पुरुष एवेदम् सर्वं यद्भूतम् यच्च भव्यम्। उतामृतत्वस्येशानो यदह्नेनाऽतिरोहति॥२ एतावानस्य महिमातो ज्यायांश्च पुरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥ त्रिपादूर्ध्वं उदैत् पुरुषः पादोस्येहा पुनः। ततो विश्वं व्यक्रामच्छाशनान शने अभि॥४ तस्माद्विराडजायत विराजो अधिपुरुषः। सहातो अत्यरिच्यत पश्चात् भूमिमतो पुरः॥५ यत्पुरुषेन हविषा देवा यज्ञमतन्वत। वसन्तो अस्यासीद्दाज्यम् ग्रीष्म इद्ध्म शरद्धविः॥६ सप्तास्यासन्परिधयस्त्रि सप्त समिधः कृताः। देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुं॥७॥ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये॥८॥ तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यं। पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥९॥ तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे। छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥१०॥ तस्मादश्वा अजायन्त ये के...
Other Articles

पवमान सूक्तम 

पवमान सूक्तम  सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १ ॥ येन पूतमन्तरिक्षं यस्मिन्वायुरधिश्रितः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २ ॥ येन पूते द्यावापृथिवी आपः पूता अथो स्वः । तेना सहस्त्रधारेण पवमानः पुनातु माम् ॥ ३ ॥ येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ४ ॥ येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ५ ॥ येन पूता वेदिरग्नयः परिधयः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम्...
Other Articles

पितृसूक्तं

पितृसूक्तं उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ १०.०१५.०२ आहं पितॄन्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ १०.०१५.०३ बर्हिषदः पितर ऊत्य१र्वागिमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाथा नः शं योररपो दधात ॥ १०.०१५.०४ उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ १०.०१५.०५ आच्या...
Other Articles

एकदंतगणेशस्तोत्रम्

॥ एकदंतगणेशस्तोत्रम् ॥ श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥ देवर्षय ऊचुः सदात्मरूपं सकलादि-भूतममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् । सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥ त्वदीय-वीर्येण समर्थभूता माया तया संरचितं...
Other Articles

ऋद्धिस्तवः

॥ ऋद्धिस्तवः ॥ श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् । दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम् ॥ १॥ देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः । सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥ २॥ प्राकारगोपुरवरप्रासादमणिमण्टपाः । शालिमुद्गतिलादीनां शालाश्शैलकुलोज्ज्वलाः ॥ ३॥ रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः । शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च ॥ ४॥ कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः । छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः ॥ ५॥ अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव । पक्षेपक्षे विवर्धन्तां मासिमासि महोत्सवाः ॥ ६॥ मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च । काश्मीरसारकस्तूरीकर्पूराद्यनुलेपनम् ॥ ७॥ कोमलानि च दामानि कुसुमैस्सौरभोत्करैः । धूपाः कर्पूरदीपाश्च सन्तु सन्ततमेव ते ॥ ८॥ नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् । श्रोत्रेषु सुधाधाराः कल्पन्तां काहलीस्वनाः ॥ ९॥ कन्दमूलफलोदग्रं कालेकाले चतुर्विधम् । सूपापूपघृतक्षीरशर्करासहितं हविः...
Other Articles

ऋणमोचन अङ्गारकस्तोत्रं

॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥ । श्रीरस्तु । श्रीपरमात्मने नमः । अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् । अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । अङ्गारको देवता । मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः । ध्यानम् । रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः । चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १॥ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ २॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३॥ अङ्गारको यमश्चैव सर्वरोगापहारकः । सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च...
Other Articles

उमासहस्रम्

॥ उमासहस्रम् ॥ प्रथमं शतकम् प्रथमः स्तबकः व्योमशरीरा, स्त्रीरूपा च (आर्यावृत्तम्) अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् । अनुगृह्णात्वनुकम्पासुधार्द्रया हसितचन्द्रिकया ॥ १.१॥ निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् । अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥ १.२॥ सा तत्त्वतः समन्तात्सत्यस्य विभोस्तता तपश्शक्तिः । लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥ १.३॥ परमः पुरुषो नाभिर्लोकानां सत्य उच्यते लोकः । परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥ १.४॥ अन्तर्गूढार्थानां पुरुषाग्नेर्धूमकल्प उद्गारः । शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥ १.५॥ अतिसूक्ष्मधूमकल्पं लोकं ततमाख़्ययाऽन्यया नाकम् । एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥ १.६॥ धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः । तां दिवमाहुः केचन परमं व्योमापरे...
Other Articles

उमाशतकम्

॥ उमाशतकम् ॥ प्रथमं दशकम् (आर्यावृत्तम्) फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य । पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥ १॥ कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा । आकाशान्तरपीठस्थितोत मे देवता भवति ॥ २॥ आकाशान्तरपीठस्थितैव साक्षात्पराशक्तिः । तस्या अंशव्यक्ती शशिनि सिताद्रौ च राजन्त्यौ ॥ ३॥ सङ्कल्पवातसङ्गादानन्दरसो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते वपुर्मातः ॥ ४॥ इच्छाविचित्रवीर्यात्तेजःपटलो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते विभोर्गात्रम् ॥ ५॥ इच्छायोगात्तेजसि तव भागः कश्चिदस्तीशे । विज्ञानयोगतो मुदि भाग्यस्त्वयि कश्चिदीशस्य ॥ ६॥ सम्राजौ शशभृति यौ गृहवन्तौ यौ च सितगिरिणा । तदिदं युवयोर्माया वेषान्तरमिथुनयुगलमुमे ॥ ७॥ यद्यपि विभूतिरधिकं युवयोर्विश्वाम्बिके भवति । मिथुने तथाप्यमू वां नेदिष्ठे देवि पश्यामः...
Other Articles

उमामहेश्वरस्तोत्रम्

॥ उमामहेश्वरस्तोत्रम् ॥ श्री शङ्कराचार्य कृतम् । नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नागेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥ नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥ नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥ नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥ नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥ नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥ नमः शिवाभ्यां कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥ नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् ।...
Other Articles

उज्ज्वलवेङ्कटनाथस्तोत्रम्

॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥ रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे । निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥ तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् । धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥ ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् । द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गशृङ्गाधिरूढं दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥ अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् । रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥ अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः । जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम्...
Other Articles

श्रीउच्छिष्टमहागणपति ध्यानम्

॥ श्रीउच्छिष्टमहागणपति ध्यानम् ॥ मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले । समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् । रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम् । अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३॥ पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् । नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४॥ सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् । पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५॥ ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् । महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६॥ नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् । पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥ ७॥ अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् । रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥ ८॥ गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् । अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥ ९॥ महागोप्यमहाविद्या प्रकाशितकलेबरम् । चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०॥ अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् । चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११॥ चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् । वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२॥ मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् । षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३॥ अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् । अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४॥ हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम्...
Other Articles

इन्द्राक्षीस्तोत्रम्

॥ इन्द्राक्षीस्तोत्रम् ॥ श्रीगणेशाय नमः । पूर्वन्यासः अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य, शचीपुरन्दर ऋषिः, अनुष्टुप् छन्दः, इन्द्राक्षी दुर्गा देवता, लक्ष्मीर्बीजं, भुवनेश्वरीति शक्तिः, भवानीति कीलकम् , इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः । ॐ महालक्ष्मीति तर्जनीभ्यां नमः । ॐ माहेश्वरीति मध्यमाभ्यां नमः । ॐ अम्बुजाक्षीत्यनामिकाभ्यां नमः । ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः । ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः ॐ इन्द्राक्षीति हृदयाय नमः । ॐ महालक्ष्मीति शिरसे स्वाहा । ॐ माहेश्वरीति शिखायै वषट् । ॐ अम्बुजाक्षीति कवचाय हुम् । ॐ कात्यायनीति नेत्रत्रयाय वौषट् । ॐ कौमारीति अस्त्राय फट् । ॐ भूर्भुवः स्वरोम्...
Other Articles

इन्द्रसहस्रनामस्तोत्रं

॥ इन्द्रसहस्रनामस्तोत्रं गणपतेः कृतिः ॥ इन्द्रो देवतमोऽनीलः सुपर्णः पूर्णबन्धुरः । विश्वस्य दमिता विश्वश्येशानो विश्वचर्षणिः ॥ १॥ विश्वानि चक्रिर्विश्वस्मादुत्तरो विश्वभूर्बृहन् । चेकितनो वर्तमानः स्वधयाऽचक्रया परः ॥ २॥ विश्वानरो विश्वरूपो विश्वायुर्विश्वतस्पृथुः । विश्वकर्मा विश्वदेवो व्ह्श्वतो धीरनिष्कृतः ॥ ३॥ त्रिषुजातस्तिग्मशृङ्गो देवो ब्रध्नोऽरुषश्चरन् । रुचानः परमो विद्वान् अरुचो रोचयन्नजः ॥ ४॥ ज्येष्ठो जनानां वॄषभो ज्योतिर्ज्येष्ठं सहोमहि । अभिक्रतूनां दमिता धर्ता विश्वस्य कर्मणः ॥ ५॥ धर्ता धनानं धातॄणां धाता धिरो धियेषितः । यज्ञस्य साधनो यज्ञो यज्ञवाहा अपामजः ॥ ६॥ यज्ञं जुषाणो यजतो युक्तग्राव्णोऽवितेषिरः । सुवज्ज्रश्च्यवनो योद्धा यशसो यज्ञियो यहुः ॥ ७॥ अवयाता दुर्मतीनां हन्ता पापस्य...
Other Articles

आर्यापञ्चदशीस्तोत्रम्

॥ आर्यापञ्चदशीस्तोत्रम् ॥ करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् । कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् ॥ १ ॥ एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् । शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् ॥ २ ॥ ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् । इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् ॥ ३ ॥ लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् । ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् ॥ ४ ॥ ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये । हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि ॥ ५ ॥ हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये । हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते ॥ ६ ॥ सकलमनोरथदाने सत्यपि चरणे नतस्य तव निपुणे । संसेव्यते सुरतरुः सदाज्ञलोकैर्नु कृच्छ्रफलदाता ॥ ७ ॥ कनकरुचे चटुलगते कठिनस्तनभारनम्रकृशमध्ये...
Other Articles

आर्त्तत्राणस्तोत्रम्

॥ आर्त्तत्राणस्तोत्रम् ॥ अप्पयदीक्षितविरचितम् क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १॥ क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २॥ मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः । नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३॥ ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्त्तिहा । पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्घोषयन् आर्त्तत्राणपरायणः स...
1 2 3 4 7
Page 2 of 7