Other Articles

॥ अघनाशकगायत्रीस्तोत्र ॥

8views

॥ अघनाशकगायत्रीस्तोत्र ॥

आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।

सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते ॥

त्वमेव संध्या गायत्री सावित्रि च सरस्वती ।

ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।

वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥

हंसस्था गरुडारूढा तथा वृषभवाहिनी ।

ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥

यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।

सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥

रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।

त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥

सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।

शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥

आनन्दजननी दुर्गा दशधा परिपठ्यते ।

वरेण्या वरदा चैव वरिष्ठा वरर्व्णिनी ॥

ALSO READ  श्रीविद्या त्रिपुरा, महात्रिपुरा, सुंदरी देवी के ध्यान, कृपा और आध्यात्मिक उत्थान के लिए एक बहुत ही रहस्यमय साधना है।

गरिष्ठा च वराही च वरारोहा च सप्तमी ।

नीलगंगा तथा संध्या सर्वदा भोगमोक्षदा ॥

भागीरथी मर्त्यलोके पाताले भोगवत्यपि ॥

त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥

भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी ।

भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥

महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।

तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥

कमला विष्णुलोके च गायत्री ब्रह्मलोकगा ।

रुद्रलोके स्थिता गौरी हरार्धांगीनिवासिनी ॥

अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।

साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥

ततः परापरा शक्तिः परमा त्वं हि गीयसे ।

इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥

गंगा च यमुना चैव विपाशा च सरस्वती ।

सरयूर्देविका सिन्धुर्नर्मदेरावती तथा ॥

गोदावरी शतद्रुश्च कावेरी देवलोकगा ।

ALSO READ  संत विश्वनाथ और राजा विक्रमादित्य की वंश वृद्धि

कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।

इडा च पिंगला चैव सुषुम्णा च तृतीयका ॥

गांधारी हस्तिजिह्वा च पूषापूषा तथैव च ।

अलम्बुषा कुहूश्चैव शंखिनी प्राणवाहिनी ॥

नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।

हृतपद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥

तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ।

मूले तु कुण्डली शक्तिर्व्यापिनी केशमूलगा ॥

शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।

किमन्यद् बहुनोक्तेन यत्किंचिज्जगतीत्रये ॥

तत्सर्वं त्वं महादेवि श्रिये संध्ये नमोऽस्तु ते ।

इतीदं कीर्तितं स्तोत्रं संध्यायां बहुपुण्यदम् ॥

महापापप्रशमनं महासिद्धिविधायकम् ।

य इदं कीर्तयेत् स्तोत्रं संध्याकाले समाहितः ॥

ALSO READ  पितृदोष और उसकी शांति का विधान का शास्त्र प्रमाण

अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् ।

सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥

भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।

तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥

यत्र कुत्र जले मग्नः संध्यामज्जनजं फलम् ।

लभते नात्र संदेहः सत्यं च नारद ॥

श्रृणुयाद्योऽपि तद्भक्त्या स तु पापात् प्रमुच्यते ।

पीयूषसदृशं वाक्यं संध्योक्तं नारदेरितम् ॥

॥ इति श्रीअघनाशक गायत्री स्तोत्रं सम्पूर्णम् ॥