श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम्
॥ श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीअन्नपूर्णाविश्वनाथाभ्यां नमः ॥ अस्य श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रमन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीअन्नपूर्णेश्वरी देवता । स्वधा बीजम् । स्वाहा शक्तिः । ॐ कीलकम् । मम सर्वाभीष्टप्रसादसिद्धयर्थे पाठे विनियोगः । ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती । सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १॥ वेदवेद्या महाविद्या विद्यादात्री विशारदा । कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २॥ भवानी विष्णुजननी ब्रह्मादिजननी तथा । गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३॥ भोगप्रदा भगवती भत्ताभीष्टप्रदायिनी । भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४॥ भवान्नी चञ्चला गौरी चारुचन्द्रकलाधरा । विशालाक्षी विश्वमाता विश्ववन्द्या...