Other Articles

Other Articles

श्री लक्ष्मी स्तोत्र – इन्द्रकृत

श्री लक्ष्मी स्तोत्र - इन्द्रकृत इन्द्र उवाच  ऊँ नम: कमलवासिन्यै नारायण्यै नमो नम: । कृष्णप्रियायै सारायै पद्मायै च नमो नम: ।।1।। पद्मपत्रेक्षणायै च पद्मास्यायै नमो नम: । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नम: ॥2॥ सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नम: । सुखदायै मोक्षदायै सिद्धिदायै नमो नम: ॥3॥ हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नम: । कृष्णवक्ष:स्थितायै च कृष्णेशायै नमो नम: ॥4॥ कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने । सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नम: ॥5॥ शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नम: । नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नम: ॥6॥ वैकुण्ठे या महालक्ष्मीर्लक्ष्मी: क्षीरोदसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥7॥ गृहलक्ष्मीश्च गृहिणां...
Other Articles

श्री महालक्ष्मी स्तोत्र – विष्णुपुराणान्तर्गतम्

श्री महालक्ष्मी स्तोत्र - विष्णुपुराणान्तर्गतम्   श्रीगणेशाय नमः श्रीपराशर उवाच  सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ १॥ इन्द्र उवाच नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ २॥ पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥ ३॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ४॥ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ ५॥ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥ ६॥ का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगचिन्त्यं...
Other Articles

अथ सप्तश्लोकी दुर्गा स्तुति

।।अथ सप्तश्लोकी दुर्गास्तुति   ।। शिव उवाच- देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः।। देव्युवाच- शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्। मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते।। विनियोग- ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः। ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाय महामाया प्रयच्छति।1। दुर्गे स्मृता हरसि भीतिमशेषजन्तोः, स्वस्थैः स्मृता मतिमतीव शुभां ददासि। दारिद्र्यदुःखभयहारिणी का त्वदन्या, सर्वोपकारकरणाय सदार्द्रचित्ता।2। सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके। शरण्ये त्रयंबके गौरि नारायणि नमोस्तु ते।3। शरणागतदीनार्तपरित्राणपराणये। सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते।4। सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते। भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तु ते।5।...
Other Articles

नवग्रह स्तोत्र

नवग्रह स्तोत्र   रवि: जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥ चंद्र: दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ मंगळ: धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥ बुध: प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥ गुरु: देवानांच ऋषिणांच गुरुंकांचन सन्निभं । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ ५॥ शुक्र: हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥ शनि: नीलांजनसमाभासं रविपुत्रं यमाग्रजम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥ राहू: अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं...
Other Articles

श्री सूक्त

॥ श्री सूक्त ॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्...
Other Articles

पुरुष सूक्त

पुरुष सूक्त सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतोवृत्वात्यतिष्ठद्दशांगुलम्॥१ पुरुष एवेदम् सर्वं यद्भूतम् यच्च भव्यम्। उतामृतत्वस्येशानो यदह्नेनाऽतिरोहति॥२ एतावानस्य महिमातो ज्यायांश्च पुरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥ त्रिपादूर्ध्वं उदैत् पुरुषः पादोस्येहा पुनः। ततो विश्वं व्यक्रामच्छाशनान शने अभि॥४ तस्माद्विराडजायत विराजो अधिपुरुषः। सहातो अत्यरिच्यत पश्चात् भूमिमतो पुरः॥५ यत्पुरुषेन हविषा देवा यज्ञमतन्वत। वसन्तो अस्यासीद्दाज्यम् ग्रीष्म इद्ध्म शरद्धविः॥६ सप्तास्यासन्परिधयस्त्रि सप्त समिधः कृताः। देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुं॥७॥ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये॥८॥ तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यं। पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥९॥ तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे। छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥१०॥ तस्मादश्वा अजायन्त ये के...
Other Articles

पवमान सूक्तम 

पवमान सूक्तम  सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १ ॥ येन पूतमन्तरिक्षं यस्मिन्वायुरधिश्रितः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २ ॥ येन पूते द्यावापृथिवी आपः पूता अथो स्वः । तेना सहस्त्रधारेण पवमानः पुनातु माम् ॥ ३ ॥ येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ४ ॥ येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ५ ॥ येन पूता वेदिरग्नयः परिधयः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम्...
Other Articles

पितृसूक्तं

पितृसूक्तं उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ १०.०१५.०२ आहं पितॄन्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ १०.०१५.०३ बर्हिषदः पितर ऊत्य१र्वागिमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाथा नः शं योररपो दधात ॥ १०.०१५.०४ उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ १०.०१५.०५ आच्या...
Other Articles

एकदंतगणेशस्तोत्रम्

॥ एकदंतगणेशस्तोत्रम् ॥ श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥ देवर्षय ऊचुः सदात्मरूपं सकलादि-भूतममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् । सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥ त्वदीय-वीर्येण समर्थभूता माया तया संरचितं...
Other Articles

ऋद्धिस्तवः

॥ ऋद्धिस्तवः ॥ श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् । दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम् ॥ १॥ देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः । सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥ २॥ प्राकारगोपुरवरप्रासादमणिमण्टपाः । शालिमुद्गतिलादीनां शालाश्शैलकुलोज्ज्वलाः ॥ ३॥ रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः । शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च ॥ ४॥ कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः । छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः ॥ ५॥ अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव । पक्षेपक्षे विवर्धन्तां मासिमासि महोत्सवाः ॥ ६॥ मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च । काश्मीरसारकस्तूरीकर्पूराद्यनुलेपनम् ॥ ७॥ कोमलानि च दामानि कुसुमैस्सौरभोत्करैः । धूपाः कर्पूरदीपाश्च सन्तु सन्ततमेव ते ॥ ८॥ नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् । श्रोत्रेषु सुधाधाराः कल्पन्तां काहलीस्वनाः ॥ ९॥ कन्दमूलफलोदग्रं कालेकाले चतुर्विधम् । सूपापूपघृतक्षीरशर्करासहितं हविः...
Other Articles

ऋणमोचन अङ्गारकस्तोत्रं

॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥ । श्रीरस्तु । श्रीपरमात्मने नमः । अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् । अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । अङ्गारको देवता । मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः । ध्यानम् । रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः । चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १॥ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ २॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३॥ अङ्गारको यमश्चैव सर्वरोगापहारकः । सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च...
Other Articles

उमासहस्रम्

॥ उमासहस्रम् ॥ प्रथमं शतकम् प्रथमः स्तबकः व्योमशरीरा, स्त्रीरूपा च (आर्यावृत्तम्) अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् । अनुगृह्णात्वनुकम्पासुधार्द्रया हसितचन्द्रिकया ॥ १.१॥ निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् । अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥ १.२॥ सा तत्त्वतः समन्तात्सत्यस्य विभोस्तता तपश्शक्तिः । लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥ १.३॥ परमः पुरुषो नाभिर्लोकानां सत्य उच्यते लोकः । परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥ १.४॥ अन्तर्गूढार्थानां पुरुषाग्नेर्धूमकल्प उद्गारः । शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥ १.५॥ अतिसूक्ष्मधूमकल्पं लोकं ततमाख़्ययाऽन्यया नाकम् । एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥ १.६॥ धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः । तां दिवमाहुः केचन परमं व्योमापरे...
Other Articles

उमाशतकम्

॥ उमाशतकम् ॥ प्रथमं दशकम् (आर्यावृत्तम्) फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य । पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥ १॥ कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा । आकाशान्तरपीठस्थितोत मे देवता भवति ॥ २॥ आकाशान्तरपीठस्थितैव साक्षात्पराशक्तिः । तस्या अंशव्यक्ती शशिनि सिताद्रौ च राजन्त्यौ ॥ ३॥ सङ्कल्पवातसङ्गादानन्दरसो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते वपुर्मातः ॥ ४॥ इच्छाविचित्रवीर्यात्तेजःपटलो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते विभोर्गात्रम् ॥ ५॥ इच्छायोगात्तेजसि तव भागः कश्चिदस्तीशे । विज्ञानयोगतो मुदि भाग्यस्त्वयि कश्चिदीशस्य ॥ ६॥ सम्राजौ शशभृति यौ गृहवन्तौ यौ च सितगिरिणा । तदिदं युवयोर्माया वेषान्तरमिथुनयुगलमुमे ॥ ७॥ यद्यपि विभूतिरधिकं युवयोर्विश्वाम्बिके भवति । मिथुने तथाप्यमू वां नेदिष्ठे देवि पश्यामः...
Other Articles

उमामहेश्वरस्तोत्रम्

॥ उमामहेश्वरस्तोत्रम् ॥ श्री शङ्कराचार्य कृतम् । नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नागेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥ नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥ नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥ नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥ नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥ नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥ नमः शिवाभ्यां कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥ नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् ।...
Other Articles

उज्ज्वलवेङ्कटनाथस्तोत्रम्

॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥ रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे । निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥ तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् । धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥ ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् । द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गशृङ्गाधिरूढं दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥ अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् । रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥ अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः । जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम्...
Other Articles

श्रीउच्छिष्टमहागणपति ध्यानम्

॥ श्रीउच्छिष्टमहागणपति ध्यानम् ॥ मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले । समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् । रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम् । अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३॥ पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् । नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४॥ सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् । पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५॥ ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् । महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६॥ नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् । पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥ ७॥ अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् । रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥ ८॥ गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् । अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥ ९॥ महागोप्यमहाविद्या प्रकाशितकलेबरम् । चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०॥ अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् । चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११॥ चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् । वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२॥ मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् । षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३॥ अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् । अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४॥ हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम्...
Other Articles

इन्द्राक्षीस्तोत्रम्

॥ इन्द्राक्षीस्तोत्रम् ॥ श्रीगणेशाय नमः । पूर्वन्यासः अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य, शचीपुरन्दर ऋषिः, अनुष्टुप् छन्दः, इन्द्राक्षी दुर्गा देवता, लक्ष्मीर्बीजं, भुवनेश्वरीति शक्तिः, भवानीति कीलकम् , इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः । ॐ महालक्ष्मीति तर्जनीभ्यां नमः । ॐ माहेश्वरीति मध्यमाभ्यां नमः । ॐ अम्बुजाक्षीत्यनामिकाभ्यां नमः । ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः । ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः ॐ इन्द्राक्षीति हृदयाय नमः । ॐ महालक्ष्मीति शिरसे स्वाहा । ॐ माहेश्वरीति शिखायै वषट् । ॐ अम्बुजाक्षीति कवचाय हुम् । ॐ कात्यायनीति नेत्रत्रयाय वौषट् । ॐ कौमारीति अस्त्राय फट् । ॐ भूर्भुवः स्वरोम्...
Other Articles

इन्द्रसहस्रनामस्तोत्रं

॥ इन्द्रसहस्रनामस्तोत्रं गणपतेः कृतिः ॥ इन्द्रो देवतमोऽनीलः सुपर्णः पूर्णबन्धुरः । विश्वस्य दमिता विश्वश्येशानो विश्वचर्षणिः ॥ १॥ विश्वानि चक्रिर्विश्वस्मादुत्तरो विश्वभूर्बृहन् । चेकितनो वर्तमानः स्वधयाऽचक्रया परः ॥ २॥ विश्वानरो विश्वरूपो विश्वायुर्विश्वतस्पृथुः । विश्वकर्मा विश्वदेवो व्ह्श्वतो धीरनिष्कृतः ॥ ३॥ त्रिषुजातस्तिग्मशृङ्गो देवो ब्रध्नोऽरुषश्चरन् । रुचानः परमो विद्वान् अरुचो रोचयन्नजः ॥ ४॥ ज्येष्ठो जनानां वॄषभो ज्योतिर्ज्येष्ठं सहोमहि । अभिक्रतूनां दमिता धर्ता विश्वस्य कर्मणः ॥ ५॥ धर्ता धनानं धातॄणां धाता धिरो धियेषितः । यज्ञस्य साधनो यज्ञो यज्ञवाहा अपामजः ॥ ६॥ यज्ञं जुषाणो यजतो युक्तग्राव्णोऽवितेषिरः । सुवज्ज्रश्च्यवनो योद्धा यशसो यज्ञियो यहुः ॥ ७॥ अवयाता दुर्मतीनां हन्ता पापस्य...
Other Articles

आर्यापञ्चदशीस्तोत्रम्

॥ आर्यापञ्चदशीस्तोत्रम् ॥ करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् । कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् ॥ १ ॥ एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् । शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् ॥ २ ॥ ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् । इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् ॥ ३ ॥ लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् । ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् ॥ ४ ॥ ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये । हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि ॥ ५ ॥ हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये । हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते ॥ ६ ॥ सकलमनोरथदाने सत्यपि चरणे नतस्य तव निपुणे । संसेव्यते सुरतरुः सदाज्ञलोकैर्नु कृच्छ्रफलदाता ॥ ७ ॥ कनकरुचे चटुलगते कठिनस्तनभारनम्रकृशमध्ये...
Other Articles

आर्त्तत्राणस्तोत्रम्

॥ आर्त्तत्राणस्तोत्रम् ॥ अप्पयदीक्षितविरचितम् क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १॥ क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २॥ मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः । नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३॥ ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्त्तिहा । पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्घोषयन् आर्त्तत्राणपरायणः स...
Other Articles

आनन्दसागरस्तवः

॥ आनन्दसागरस्तवः ॥ विज्ञापनार्हविरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि विश्वमातुः । अव्याजभूतकरुणापवनापविद्धा- न्यन्तः स्मराम्यहमपाङ्गतरङ्गितानि ॥ १ ॥ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् । इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ॥२॥ आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा । यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ३ ॥ पर्याकुले मनसि वाचि परिस्खलन्त्यां आवर्तगर्त इव चक्षिषि घूर्णमाने । कस्तेऽभिदास्यति शिवे ममतामवस्थां काले दयस्व कथयामि तवाधुनैव ॥ ४ ॥ भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीणजन्तुरिव पौरजनेषु लोकः । अन्यत्र देवि भवदीयपदारविन्दा- दाकृष्यमाणमपि मे हृदयं न याति ॥ ५ ॥ अङ्गीकुरु त्वमवधीरय...
Other Articles

आद्यास्तोत्रम्

॥ आद्यास्तोत्रम् ॥ ॐ नम आद्यायै । शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥ मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे । अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २॥ द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि । मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३॥ नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् । लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ ४॥ राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता । ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५॥ इन्द्राणी अमरावत्यामविका वरुणालये। यमालये कालरूपा कुबेरभवने शुभा ॥ ६॥ महानन्दाग्निकोने च वायव्यां...
Other Articles

महामहिमान्वितं आदित्यस्तोत्रम्

॥ महामहिमान्वितं आदित्यस्तोत्रम् ॥ अथ श्रीमदप्पय्यदीक्षितविरचितं महामहिमान्वितं आदित्यस्तोत्रम् ॥ विस्तारायाममानं दशभिरुपगतो योजनानां सहस्रैः चक्रे पञ्चारनाभित्रितयवति लसन् नेमिषट्के निविष्टः । सप्तच्छन्दस्तुरङ्गाहितवहनधुरो हायनांशत्रिवर्ग व्यक्ताकॢप्ताखिलाङ्गः स्फुरतु मम पुरः स्यन्दनश्चण्डभानोः ॥ १॥ आदित्यैरप्सरोभिर्मुनिभिरहिवरैर्ग्रामणीयातुधानैः गन्धर्वैर्वालखिल्यैः परिवृतदशमांशस्य कृत्स्नं रथस्य । मध्यं व्याप्याधितिष्ठन् मणिरिव नभसो मण्डलश्चण्डरश्मेः ब्रह्मज्योतिर्विवर्तः श्रुतिनिकरघनीभावरूपः समिन्धे ॥ २॥ निर्गच्छन्तोऽर्कबिम्बान् निखिलजनिभृतां हार्दनाडीप्रविष्टाः नाड्यो वस्वादिबृन्दारकगणमधुनस्तस्य नानादिगुत्थाः । वर्षन्तस्तोयमुष्णं तुहिनमपि जलान्यापिबन्तः समन्तात् पित्रादीनां स्वधौषध्यमृतरसकृतो भान्ति कान्तिप्ररोहाः॥ ३॥ श्रेष्ठास्तेषां सहस्रे त्रिदिववसुधयोः पञ्चदिग्व्याप्तिभाजां शुभ्रांशुं तारकौघं शशितनयमुखान् पञ्च चोद्भासयन्तः । आरोगो भ्राजमुख्यास्त्रिभुवनदहने सप्तसूर्या भवन्तः सर्वान् व्याधीन् सुषुम्नाप्रभृतय इह मे सूर्यपादाः क्षिपन्तु ॥ ४॥ आदित्यानाश्रिताः षण्णवतिगुणसहस्रान्विता रश्मयोऽन्ये मासे मासे विभक्तास्त्रिभुवनभवनं पावयन्तः...
Other Articles

श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम्

॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः ॥ आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ ३॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ ४॥ पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥ ५॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः ॥ ६॥ कपिसेनानायकश्च भविष्यच्चतुराननः । कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥ ७॥ सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः । गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥ ८॥ कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः । सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ ९॥ वानरः केसरिसुतः सीताशोकनिवारकः । अञ्जनागर्भसम्भूतो बालार्कसदृशाननः ॥ १०॥ विभीषणप्रियकरो दशग्रीवकुलान्तकः । लक्ष्मणप्राणदाता च...
Other Articles

श्रीआञ्जनेयसहस्रनामस्तोत्रम्

॥ श्रीआञ्जनेयसहस्रनामस्तोत्रम् ॥ ऋषय ऊचुः । ऋषे लोहगिरिं प्राप्तः सीताविरहकातरः । भगवान् किं व्यधाद्रामस्तत्सर्वं ब्रूहि सत्वरम् ॥ वाल्मीकिरुवाच । मायामानुष देहोऽयं ददर्शाग्रे कपीश्वरम् । हनुमन्तं जगत्स्वामी बालार्कसम तेजसम् ॥ स सत्वरं समागम्य साष्टाङ्गं प्रणिपत्य च । कृताञ्जलिपुटो भूत्वा हनुमान् राममब्रवीत् ॥ श्री हनुमानुवाच । धन्योऽस्मि कृतकृत्योऽस्मि दृष्ट्वा त्वत्पादपङ्कजम् । योगिनामप्यगम्यं च संसारभय नाशनम् । पुरुषोत्तमं च देवेशं कर्तव्यं तन्निवेद्यताम् ॥ श्री रामचन्द्रोवाच । जनस्थानं कपिश्रेष्ठ कोऽप्यागत्य विदेहजाम् । हृतवान् विप्रसंवेशो मारीचानुगते मयि ॥ गवेष्यः साम्प्रतं वीरः जानकी हरणे परः । त्वया गम्यो न को देशस्त्वं च ज्ञानवतावरः ॥ सप्तकोटि महामन्त्रमन्त्रितावयवः...
Other Articles

श्रीआंजनेय द्वादशनामस्तोत्रम्

॥ श्रीआंजनेय द्वादशनामस्तोत्रम् ॥ हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १॥ उदधिक्रमणश्चैव सीताशोकविनाशकः । लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २॥ द्वादशैतानि नामानि कपींद्रस्य महात्मनः । स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः । तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥...
Other Articles

आञ्जनेय गायत्रि ध्यानं त्रिकाल वंदनं

आञ्जनेय गायत्रि ध्यानं त्रिकाल वंदनं श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम हृदयानंदं भक्त कल्प महीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ अञ्जनानन्दनं वीरं जानकी शोकनाशनम् । कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥ आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् । पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥ उल्लंघ्य सिन्धोः सलिलं सलीलं यस्शोक वह्निं जनकात्मजाय । आदाय तेनैव ददाह लंकां नमामि तं प्रान्जलिराञ्जनेयं ॥ अतुलित बलधामं स्वर्ण शैलाभदेहम् दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् । सकल गुण निधानं वानराणां...
Other Articles

अष्टादशशक्तिपीठस्तोत्रम्

॥ अष्टादशशक्तिपीठस्तोत्रम् ॥ लङ्कायां शाङ्करी देवी कामाक्षी काञ्चिकापुरे । प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥ अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका । कोल्हापुरे महालक्ष्मी माहूर्ये एकवीरिका ॥ उज्जयिन्यां महाकाली पीठिक्यां पुरुहूतिका । ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटके ॥ हरिक्षेत्रे कामरूपा प्रयागे माधवेश्वरी । ज्वालायां वैष्णवी देवी गया माङ्गल्यगौरिका ॥ वारणस्यां विशालाक्षी काश्मीरेषु सरस्वती । अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥ सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् । सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ॥ इति अष्टादशशक्तिपीठस्तुतिः ।...
Other Articles

अश्वत्थस्तोत्रम्

॥ अश्वत्थस्तोत्रम् ॥ श्री नारद उवाच अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ ब्रह्मोवाच श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् । यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते ॥ अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः । ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा । मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ पूर्वादिदिक्षु संयाता नदीनदसरोऽब्धयः । तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः ॥ त्वं क्षीर्यफलकश्चैव शीतलस्य वनस्पते । त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ॥ चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे । बोधिसत्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले । अथः श्रुतस्त्वं सततं तरूणां...
Other Articles

अर्धनारीश्वराष्टकम्

॥ अर्धनारीश्वराष्टकम् ॥ अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ १॥ प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ॥ २॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धरायै । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ३॥ कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ ४॥ पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय । कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय ॥ ५॥ प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ६॥ प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७॥ अन्तर्बहिश्चोर्ध्वमधश्च...
1 3 4 5 6 7 41
Page 5 of 41