अञ्जनशैलनाथस्तोत्रम्
॥ अञ्जनशैलनाथस्तोत्रम् ॥ पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्रीं भुवननयनपुण्यं पूरिताशेषकामम् । पुनरपि वृषशैले फुल्लनीलोत्पलाभं पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ १॥ आजानसौहृदमपारकृपामृताब्धिं अव्याजवत्सलमवेलसुशीलमाद्यम् । आनन्दराशिमनुरागमयावरोधं आराधयामि हरिमञ्जनशैलनाथम् ॥ २॥ आताम्रपादमवदातसुवर्णचेलं आपीनबाहुशिखरोज्ज्वलशङ्खचक्रम् । आविस्स्मिताननममन्ददयाकटाक्षं आराधयामि हरिमञ्जनशैलनाथम् ॥ ३॥ अप्राकृतावयवसंहितसंनिवेशं आरूढयौवनमहीनकुमारभावम् । अम्लानकान्तिमतिवाङ्मनसानुभावं आराधयामि हरिमञ्जनशैलनाथम् ॥ ४॥ आशावकाशसमुदित्वरसर्वगन्धं आस्वादयत्सुगमसर्वरसस्वभावम् । आश्लेषगम्यसुखसंस्पृशनातिरेकं आराधयामि हरिमञ्जनशैलनाथम् ॥ ५॥ आदर्शयन्तमतिसंकुचिताक्षिशक्तिं आश्रावयन्तमखिलान् बधिरान् प्रकृत्या । आभाषयन्तमभितो नतमूकवर्गं आराधयामि हरिमञ्जनशैलनाथम् ॥ ६॥ आधावयन्तमतिमारुतमेव पङ्गून् आजानुलम्बिभुजयन्तमहो कुबाहून् । अन्यांश्च कृतशिरसः प्रतिजीवयन्तं आराधयामि हरिमञ्जनशैलनाथम् ॥ ७॥ आजन्मनिर्धनजनानलकेशयन्तं अज्ञानपि त्रिदशदेशिकदेश्ययन्तम् । अह्नाय वन्ध्यमपि मर्त्यमवन्ध्ययन्तं आराधयामि हरिमञ्जनशैलनाथम् ॥ ८॥ आबद्धकङ्कणमशेषशरण्यतायां आपत्सहायमपराधसहं नतानाम् । आसन्नसामगसुखालससूरिवर्गं आराधयामि हरिमञ्जनशैलनाथम्...